SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ -५१] द्वितीयः स्तबकः ६९ ललिताङ्गदेवेन बोधितस्त्यक्तशोकः प्रसन्नमतिर्युगंधर महायोगिसमीपे जैनों दीक्षामासाद्य पञ्चसहस्रैः पृथ्वीपतीनां समं सिंहनिष्क्रीडितं नाम दुश्चरं तपस्तप्त्वा महोदर्कं सर्वतोभद्रं च चरित्वा समासादितविज्ञानत्रयविमला लोकः सुखैकतानेऽच्युतकल्पविमाने द्वाविंशतिसागरजीवितः सुरेन्द्रो भूत्वा तत्र दिव्यान्भोगाननुभुञ्जानो मातृवात्सल्येन ललिताङ्गदेवमागत्यारोप्य च मामकीनं विमानमानीय चास्मत्कल्पमसकृत् सत्क्रियां विस्तारयामि स्म । च्युतो $ ५१ ) अथ सोऽपि ललिताङ्गः सुचिरं भोगाननुभुञ्जानो मुहुर्मुहुर्मया पूजितः, कालान्ते जम्बूद्वीपपूर्वविदेहशोभितमङ्गलावतीविषयविराजित रजतमहीधरोदक्तटघटितगन्धर्वपुरनाथस्य वासवस्य विद्याधरेन्द्रस्य प्रभावतीदेव्यां महीधरो नाम सुतः संजातः । क्रमेण तस्मिन् वासवे महीधराय राज्यं समर्प्यरविन्दनिकटे मुक्तावलिनामतपस्तप्त्वा मोक्षलक्ष्मीमाटीकमाने, प्रभावत्यां प्रत्यासन्नेन निकटवर्तिना मातृचरललिताङ्गदेवेन मातृजीवललिताङ्गदेवेन बोधितो बोधं प्रापितः त्यक्तशोको १० दूरीकृतखेदः प्रसन्नमतिः स्वच्छचेताः सन् युगंधर महायोगिनस्तन्नामजिनेन्द्रस्य समीपे पार्श्वे जैनी जिनप्रोक्तां दीक्षां प्रव्रज्याम् आसाद्य प्राप्य पृथ्वीपतोनां राज्ञां पञ्चसहस्रैः समं सिंह्निष्क्रीडितं नाम तन्नामधेयं व्रतविशेषं दुश्चरं कठिनं तपस्तप्त्वा महोदर्कं सर्वतोभद्रं च तन्नामव्रतविशेषं चरित्वा ( व्रतानां लक्षणं परिशिष्टे द्रष्टव्यम् ) समासादितो लब्धो विज्ञानत्रयमेव मतिश्रुतावधिज्ञानत्रिकमेव विमलालोको निर्मलप्रकाशो येन तथाभूतः सन् सुखस्य सातस्य एकतानो मुख्यविस्तारो यस्मिन् तस्मिन् अच्युतकल्पविमाने षोडशस्वर्गे द्वाविंशतिसागरप्रमितं १५ जीवितं यस्य तथाभूतः सुरेन्द्रो देवेन्द्रो भूत्वा तत्राच्युतकल्पविमाने दिवि भवा दिव्यास्तान् भोगान् पञ्चेन्द्रियविषयान् अनुभुञ्जानोऽनुभवन् मातृवात्सल्येन जननीस्नेहेन ललिताङ्गदेवम् आगत्य प्राप्य मामकीनं स्वकीयं विमानं व्योमयानम् आरोप्य च अस्मत्कल्पं षोडशस्वर्गमानीय च असकृत् अनेकशः सत्क्रियां सत्कारं विस्तारयामि स्म । ५१ ) अथेति — अथानन्तरं सोऽपि मनोहरा मातृजीवो ललिताङ्गो देवो दीर्घकालपर्यन्तं भोगाननुभवन् भूयोभूयो . • मया पूजितो जीवितान्ते ततश्च्युतः सन् जम्बूद्वीपस्य पूर्वविदेहे विशोभितो यो २० मङ्गलावती देशस्तस्मिन् विराजितस्य शोभितस्य रजतमहीवरस्य विजयार्धपर्वतस्य उदक्तटे उत्तरश्रेण्यां घटितं स्थितं यद् गन्धर्वपुरं तन्नाम नगरं तस्य नाथस्य वासवस्य तन्नामनृपतेः विद्याधरराजस्य प्रभावती प्रभावतीदेव्यां महीधरो नाम सुतः समजायत । क्रमेण च तस्मिन् वासवे महीधराय पुत्राय राज्यं दत्त्वा अरविन्दनामनिकटे मुक्तावलिनाम तपस्तप्त्वा मोक्षलक्ष्मीम् आटिटीकमाने प्राप्तवति प्रभावत्यां वासवविद्याधरस्य ५ माताके जीव ललितांगने समझाया जिससे शोक छोड़कर प्रसन्नचित्त से मैंने युगन्धर २५ जिनेन्द्र के समीप पाँच हजार राजाओंके साथ जिनदीक्षा ले ली। सिंहनिष्क्रीडित, महोदर्क और सर्वतोभद्र नामके कठिन तप तप कर मैं मतिज्ञानादि तीन ज्ञानरूपी निर्मल प्रकाशको पालिया तथा एक सुखका ही जहाँ विस्तार है ऐसे अच्युतकल्पके विमानमें बाईस सागर की आयुवाला इन्द्र हुआ। वहाँ दिव्य भोगोंको भोगता रहा । माताके स्नेहके कारण मैं ललितांगदेव के पास आकर तथा उसे अपने विमान में चढ़ाकर कई बार अपने स्वर्ग में लाता ३० रहा तथा उसका सत्कार करता रहा । ९५१) अथेति - तदनन्तर वह ललितांग भी चिरकाल तक भोगोंको भोगता और मेरे द्वारा पूजित होता हुआ आयुके अन्त में च्युत हुआ तथा जम्बूद्वीप के पूर्व विदेह क्षेत्र में विशोभित मंगलावती देशमें स्थित विजयार्ध पर्वतकी उत्तरश्रेणिमें विद्यमान गन्धर्वपुरके राजा वासव विद्याधरेन्द्रकी प्रभावती देवीके महीधर नामका पुत्र हुआ। जब वासव राजा क्रमसे महीधर पुत्रको राज्य देकर तथा अरविन्द मुनिके ३५ १. समासाधित क० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy