SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ -४८ ] ६७ द्वितीयः स्तबकः ६४५) शोकं जहीहि शतपत्रविशालनेत्रे __ स्नाहि प्रसाधनविधिं कुरु कोमलाङ्गि। मौनं च संत्यज तवेष्टसमागमोऽद्य क्षिप्रं भविष्यति कुमारि ! तमालकेशि ॥२६॥ $ ४६ ) यशोधरमहायोगिकैवल्यकलितावधिः । सर्वं जानाति तेऽस्माकं त्वत्कान्तस्यापि वृत्तकम् ॥२७॥ $ ४७ ) शृणु वक्ष्यामि लोलाक्षि त्रयाणां वृत्तमुत्तमम् । पृथक्पयोजवदने भवान्तरविभावितम् ॥२८॥ $ ४८ ) पुरा खल्वितः पञ्चमे भवे विभवजितसुरनगर्यामिहैव पुण्डरीकिणीनगर्याम्, अर्धचक्रिणस्तनूजश्चन्द्रकोतिनामधेयोऽहं क्रमागतां राज्यलक्ष्मीमासाद्य, जयकीर्तिनाम्ना वयस्येन चिरं १० रममाणो, गृहमेधिगृहीताणुव्रतः कालान्ते चन्द्रसेनाख्यं गुरुमाश्रित्य त्यक्ताहारशरीरः संन्यासविधि तैः सिञ्चन्निव व्याहारं वक्ष्यमाणवचनम् आदधे धृतवान् उवाचेत्यर्थः । $ ४५ ) शोकमिति-शतपत्रवत् कमलवद् विशाले नेत्रे यस्यास्तत्संबुद्धो हे शतपत्रविशालनेत्रे ! शोक मनोव्यथां जहीहि त्यज । हे कोमलाङ्गि हे मृदुलशरीरे ! स्नाहि स्नानं कुरु प्रसाधनस्यालंकरणस्य विधि प्रसाधनविधिं कुरु, मौनं तूष्णींभावं संत्यज, हे कुमारि ! हे तमालकेशि श्यामलशिरोरुहे ! अद्य क्षिप्रं शीघ्रं तव इष्टेन समागम इष्टसमागम इष्टप्राप्तिः १५ भविष्यति । ६४६ ) यशोधरेति-यशोधरमहायोगिनो यशोधरभगवतः कैवल्ये केवलज्ञानमहोत्सवे कलितः प्राप्तोऽवधिरवधिज्ञानं यस्य तथाभूतोऽहं ते तव, अस्माकं स्वस्य त्वत्कान्तस्यापि त्वद्वल्लभस्य ललिताङ्गामरस्यापि सर्वं वृत्तकं निखिलं वृत्तान्तं जानामि वेद्मि ॥२७॥ ६ ४७ ) शृणु-इति-हे लोलाक्षि हे चपललोचने ! हे पयोजवदने हे कमलमुखि ! अहं भवान्तरविभाषितं जन्मान्तरानुभूतं त्रयाणां तव स्वस्य ललिताङ्गस्य च उत्तमं श्रेष्ठं वृत्तमुदन्तं पृथक् असंकीर्णं यथा स्यात्तथा वक्ष्यामि कथयिष्यामि, शृणु निशामय ॥२८॥ २० $४८) पुरेति-पुरा पूर्वकाले खलु निश्चयेन इतो वर्तमानभवात् पञ्चमे भवे विभवेन जिता पराभूता सुरनगरी स्वर्गपुरी यया तथाभूतायाम्, इहैव अस्यामेव पुण्डरीकिणीनगर्याम् अर्धचक्रिणो नारायणस्य तनूजः पुत्रः चन्द्रकीर्तिनामधेयः अहं क्रमागतां वंशपरम्पराप्राप्तां राज्यलक्ष्मी राज्यश्रियम् आसाद्य प्राप्य जयकीर्तिनाम्ना तन्नामधेयेन वयस्येन सख्या चिरं दीर्घकालपर्यन्तं रममाणः क्रीडन् गृहमेधिनां गृहस्थानां गृहीतानि प्राप्तानि अणुव्रतानि येन तथाभूतोऽहं कालान्ते जीवितान्ते चन्द्रसेनाख्यं तन्नामधेयं गुरुं तपोधनम् आश्रित्य प्राप्य त्यक्ता- २५ ॥२५॥ ४५) शोकमिति-हे कमलके समान विशालनेत्रोंवाली पुत्रि! शोक छोड़ो, हे कोमलांगि ! स्नान करो और अलंकार धारण करो, मौन छोड़ो, हे कुमारि ! हे तमालकेशि ! आज शीघ्र ही तुम्हारा इष्टके साथ समागम होगा ॥२६॥ ६४६) यशोधरेति-यशोधर महाराजके केवलज्ञान महोत्सवके समय जिसे अवधिज्ञान हुआ है ऐसा मैं तुम्हारे पति ललितांगदेवका सब वृत्तान्त जानता हूँ ॥२७॥ ६४७) शृण्विति-हे चपललोचने हे कमल- ३० वदने ! मैं भवान्तरमें अनुभूत तीनोंका उत्तम वृत्तान्त पृथक्-पृथक् कहता हूँ, सुनो ॥२८॥ $४८) पुरेति-पूर्वकालमें इस भवसे पाँचवें भवमें मैं, वैभवसे देवनगरीके वैभवको जीतनेवाली इसी पुण्डरीकिणी नगरीमें अर्धचक्रवर्तीका चन्द्रकीर्ति नामका पुत्र था। क्रमसे प्राप्त राज्यलक्ष्मीको पाकर मैं जयकीर्ति मित्रके साथ चिरकाल तक क्रीडा करता रहा। अन्तमें गृहस्थ के अणुव्रत स्वीकृत कर चन्द्रसेन नामक मुनिराजका आश्रय पा मैंने आहार और ३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy