SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ १० ६६ पुरुदेव चम्पूप्रबन्धे [ २४२ पल्लविता इव सूर्यकान्तोपलेषु, निगीर्णा इव वन्दारुभव्य वृन्दारक संदोहमणिमुकुटमणिप्रभासु विराजन्ते रविगभस्तयः । $ ४२ ) तत्रागतान्कुशलको मलसूक्ष्मबुद्धीन् सर्वान् किमेतदिति चित्रमवेक्षमाणान् । सा पण्डिता समुचितेर्वचनप्रचार गूढस्थलेषु कुशलान्कलयांबभूव ||२४|| ९ ४३ ) तदनु कृतदिग्जयश्चक्रधरो नरविद्याधरसुरकिरीटमणिकोणशाणकषण निर्मलीकृतचरणनखमणिः, कृतकृत्योऽपि जिननन्दिनीविवाहसंविधानचिन्तादन्तुरितस्वान्तः, केतुजाल - विमलपटविगलितातपां निजराजधानीं प्रविवेश । $ ४८ ) चक्री ततः समाहूय चिरमाधियुतां सुताम् । स्मितांशु सलिल: सिञ्चन्निव व्याहारमादधे ॥२५॥ सूर्यकान्तमणिषु पल्लविता इव पल्लवाः संजाता येषु तथाभूता इव वन्दारूणां वन्दनशीलानां भव्यवृन्दारकाणां श्रेष्ठभव्यानां ये संदोहाः समूहास्तेषां मणिमुकुटानां रत्नमौलीनां मणिप्रभासु रत्नदीप्तिषु निगीर्णा इव निलीना इव विराजन्ते शोभन्ते । उत्प्रेक्षालंकारः । ४२ ) तत्रेति – तत्र महापूतजिनालयचित्रशालायाम् आगतान् १५ कुशला कोमला सूक्ष्मा च बुद्धिर्येषां तथाभूतान्, एतत् किम् ? इति चित्रं श्रीमती निर्मित चित्रपट्टकम् अवेक्षमाणान् पश्यतः सर्वान् जनान् सा पण्डिता समुचितैर्योग्यैः वचनप्रचारैः वाग्विस्तारैः गूढस्थलेषु गुप्तस्थलेषु कुशलान् विचारनिमग्नान् कलयांबभूव कारयामास । वसन्ततिलकावृत्तम् ||२४|| १४३ ) तदन्विति — तदनु तदनन्तरं कृतो दिशां जयो येन कृतदिग्जयः, चक्रधरो वज्रदन्तः, नरविद्याधरसुराणां किरीटेषु मुकुटेषु ये मणयस्तेषां कोणा एव शाणा निकषोपलास्तेषु कषणेन निर्मलीकृताश्चरणनखमणयो यस्य तथाभूतः कृतकृत्योऽपि कृतार्थोऽपि २० निजनन्दिन्याः स्वसुतायाः विवाहसंविधानस्य पाणिग्रहणसंस्कारकरणस्य या चिन्ता तया दन्तुरितं व्याप्तं स्वान्तं चित्तं यस्य तथाभूतः सन् केतुजालस्य पताकासमूहस्य विमलपटैः स्वच्छवस्त्रविगलितो दूरीभूत आतपो यस्यां तां निजराजधानों प्रविवेश । ६४४ ) चक्रीति - ततः प्रवेशानन्तरं चक्री वज्रदन्तः चिरम् दीर्घकालेन आधियुतां मानसव्यथासहितां सुतां श्रीमतीम् आहूय आकार्य स्मितस्य मन्दहसितस्यांशवो रश्मय एव सलिलानि जलानि बिलमें घुस गयी हों, सूर्यकान्तमणियोंपर ऐसी प्रतिभासित होती हैं मानो पल्लवोंसे युक्त हों, २५ और नमस्कार करनेवाले श्रेष्ठ भव्यसमूहके मणिनिर्मित मुकुटोंके मणियोंकी प्रभार ऐसी जान पड़ती हैं मानो उनमें निलीन ही हो गयी हों । १४२ ) तत्रेति - वहाँ आये हुए, कुशल कोमल और सूक्ष्मबुद्धिके धारक तथा 'यह क्या है ? इस तरह चित्रको देखनेवाले सब लोगों को उस पण्डिताने योग्य वचनोंके प्रचारसे गूढ़ स्थलों में विचार निमग्न कर दिया था ||२४|| १४३ ) तदन्विति - तदनन्तर जो दिग्विजय कर चुके थे, मनुष्य विद्याधर और देवों३० के मुकुटोंमें लगे हुए मणियोंके अग्रभागरूपी मसाणपर घिसनेसे जिसके चरणोंके नखरूपी मणि निर्मल हो गये हैं, तथा कृतकृत्य होनेपर भी अपनी पुत्री के विवाह सम्बन्धी चिन्तासे जिनका चित्त व्याप्त हो रहा था ऐसे चक्रवर्ती वज्रदन्तने पताकासमूहके निर्मल वस्त्रोंसे जिसका घाम दूर हो गया था ऐसी अपनी राजधानी पुण्डरीकिगी नगरी में प्रवेश किया । १४४ ) चक्रीति - तत्पश्चात् चक्रवर्ती वज्रदन्तने चिरकालसे मानसिक व्यथासे युक्त पुत्रीको ३५ बुलाकर मन्दहास्य की किरणरूपी जलसे उसे सींचते हुए की तरह निम्नलिखित वचन कहे १. मकुट क० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001712
Book TitlePurudev Champoo Prabandh
Original Sutra AuthorArhaddas
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages476
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy