________________
सयोगिगुणस्थानकाद्धाचरमसमयः ]
सयोगिगुणस्थानाद्धाधिकारः
[ ४९३
निरोधः, तेन योगनिरोधलक्षणफले समुत्पन्न तत्कारणं सूक्ष्मक्रिया-प्रतिपातिध्यानं निवर्तते, प्रयोजनसिद्धेः । इत्थं सूक्ष्मक्रियाऽप्रतिपातिध्यानवलेन निरुद्धकाययोगो विगतलेश्यो देहे स्थितोsपि निर्वाणं यियासुः केवलज्ञानी भगवान् निष्क्रियो भवति । उक्तं च
1
"ध्याने दृढा -S-पिते परमात्मनि ननु निष्क्रियो भवति कायः । प्राणापातनिमेषोन्मेषवियुक्तो मृतस्येव ॥१॥
ध्याना - Sर्पितोपयोगस्या- ऽपि न वाङ्मनसक्रिये यस्मात् । अन्तर्वर्त्तित्वादुपरमतस्तेन तयोर्ध्यानेन निरोधनं नेष्टम् || २ || सततं तेन ध्यानेन निरुद्धे सूक्ष्मकाययोगेऽपि ।
निष्क्रियदेहो भवति स्थितोऽपि देहे विगतलेइयः ||३||” इति ॥ २६०॥ तदेवं समर्थितोऽष्टमोऽधिकारः ।
सयोगिकेवलिगुणस्थानकचरमसमये प्रवर्तमानपदार्थानां यन्त्रकम् ।
(१) उदयप्रतीनां प्रकृतीनान योगिगुणस्थानका द्वाप्रमाणां स्थितिं विदधाति । (२) अनुदयवतीनां प्रकृती नाम योगिगुणस्थानकाद्वापेक्षया समयोनां स्थिति निर्वर्तयति ।
(३) नरकद्विक-तिर्यद्विक- पञ्चेन्द्रियवर्ज जातिचतुष्टय-स्थावर - सूक्ष्म-साधारणा-ऽऽतपोद्योतवजीनां शेषाणां नामकर्मवतिप्रकृतीनां (९०) वेदनीयद्विक-गोवद्विकयोश्च जघन्यस्थितिसंक्रमो भवति ।
(४) मनुष्यगति-पञ्चेन्द्रिय जात्यौदारिकसतक- तै जससप्तक- प्रथम संहनन- संस्थानपट्क-वर्णादिविंशतिक-खगतिद्विक-पराघातोपघातोच्छ्वासा- गुरुरुवु तीर्थङ्कर-निर्माण त्रस बादर-पर्यात प्रत्येक स्थिरा-स्थिर-शुभा-Sशुभ-सुभग-सुस्वर- दुःस्बराऽऽदेय यशः की त्युरुचैर्गोत्ररूपाणां पञ्चषष्टिप्रकृतीनां (६५) जघन्यस्थित्युदीरणा भवति । सुदुः स्त्ररोच्छ्वास वर्जानां निरुक्तमनुष्यगत्यादीनां जघन्यस्थित्युदीरणा भवति । (५) अनन्तरोक्तपञ्चषधि॒िप्रकृतीनाम् (६५) उत्कृष्ट प्रदेशोदीरणा गुणितकर्माशजीवस्य भवति । अथवा सुस्वर-दुःस्वरोच्छ्वासवर्णानां शेषाणां द्वाषष्टिप्रकृतीनाम् (६२) उत्कृष्टप्रदेशोदीरणा भवति ।
(६) तैजससप्तक- मृदुलघुत्रर्जशुभवर्णादिनत्रका ऽगुरुलघु-स्थिर-शुभ-सुभगा ऽऽदेय-यशः कीर्त्ति निर्माणोच्चैर्गोत्र तीर्थकरनाम्नां पञ्चत्रिंशतिकर्मणाम् (२५) उत्कृष्टानुभागोदोरणा भवति ।
(७) अनन्तरोक्तानां पञ्चविंशतिप्रकृतीनामुत्कृष्टानुभागोइयो भवति ।
(८) कृष्ण - नील- दुरभिगन्ध-तिक्त-कटु-शीत- रूक्षा ऽस्थिरा ऽशुभरूपाणां नवप्रकृतीनां (९) जघन्या- ऽनुभागोदीरणा भवति ।
(९) अनन्तरोक्तनत्रप्रकृतीनां जयन्या- अनुभागोदयो भवति ।
(१०) औदारिकद्विक--तैजस- कार्मणशरीर-संस्थानपट्क-प्रथम संहनन-वर्णचतुष्क--खगतिद्विका ऽगुरुलघूपघातपघात-निर्माण-प्रत्येक स्थिरा --ऽस्थिर - शुभाशुभा - ऽन्यतरवेदनीयरूपाणां सप्तत्रिंशतिप्रकृतीनाम् (२७) उदयो व्यवच्छिद्यते । नामकर्मणस्त्र्यधिकशत भेदास्त्वाश्रित्य त्रिपञ्चाशत्प्रकृतीनामुद्यो व्यवच्छिद्यते । (११) चरमभवापेक्षया देहः संस्थानत उच्छायतश्च त्रिभागहीनो भवति ।
(१२) सप्तपदार्थानां व्यवच्छित्तिः । तद्यथा
(१) योगकिट्टीनां सर्वथा विनाशः । (४) नामगोत्रयोरुदीरणाया व्यवच्छेदः । (६) सातवेदनीयबन्धस्योच्छेदः ।
Jain Education International
(२) योगस्य विनाशः । (३) स्थितिघात - रसघातयोर्विच्छेदः । (५) शुक्ललेश्याया उच्छेदः ।
(७) सूक्ष्मक्रिया - ऽप्रतिपातिध्यानस्या-ऽपगमः ।
For Private & Personal Use Only
www.jainelibrary.org