________________
४९२]
खवगसेढी
[ गाथा-२६० सयोगिचरमसमये सर्वथोच्छ्वासनिरोधं मन्यन्त आवश्यकचूर्णिकारादय इत्यस्माकं मतिः । यदुक्तमावश्यकचूर्णी-"ताहे आणपाणुणिरोहं काउं अजोगो भवति ।" इति ।
सूक्ष्म क्रिया-ऽप्रतिपातिध्यानसामर्थेन संस्थानप्रमाणमुच्छायप्रमाणं च क्रमेण ह्रासयतः केवलिनश्चरमभवे यत् संस्थानप्रमाणमुच्छायप्रमाणं च भवति, तदुच्छायप्रमाणतस्त्रिभागहीनौ संस्थानोच्छायौ निरुद्धयोगस्य महात्मनः सयोगिकेवलिचरमसमये भवतः,यतो मुखश्रवणोदरादिविधराणि स्वात्मप्रदेशैः पूरितानि भवन्ति, यदुक्तमावश्यकचूर्णी-“जाइं च से सरोरे कम्मणिव्वत्तियाइं मुहसवणसिरोदरादिच्छिद्दाइं तानि वियोएमाणो२ तिभागूणं पदेसोगाहणं करेति।” इति । एवं वाचकमुख्यैरपि
"चरिमभवे संस्थानं यादृग् यस्योच्छ्यप्रमाणं च। तस्मात् त्रिभागहीनावगाहसंस्थानपरिणाहः ॥१॥” इति ॥२५७-२५८-२५९।। अथ सयोगिकेवलिगुणस्थानचरमसमये ये सप्त पदार्था युगपद् व्यवच्छिद्यन्ते,तान् व्याजिहीर्घ राह
किट्टी जोगो ठिइरसघाओ णामदुगुदीरणा लेसा। बंधो तइयज्झाणं य सत्त अन्तम्मि वोच्छिण्णा ॥२६०॥ किट्टयो योगः स्थितिरसघातो नामद्विकोदीरणा लेश्या।।
बन्धस्तृतीयध्यानं च सप्ता-ऽन्ते व्यवच्छिन्नाः ॥२६०।। इति पदसंस्कारः ।
'किट्टी' इत्यादि, 'किट्टयः प्रागनिरूपितशब्दार्थाः सर्वा योगकिट्टयः 'योगः' जीवप्रदेशपरिस्पन्दनलक्षणः करणवीर्यमित्यर्थः, स्थितिरसघातो 'नामदिकोदीरणा' नाम-गोत्रयोरुदीरणा 'लेश्या' शुक्ललेश्या 'वन्धः' सातवेदनीयस्येर्यापथिकवन्धः 'तृतीयध्यानं' सूक्ष्मक्रिया-ऽप्रतिपातिनामधेयं ध्यानं च सर्वसङ्ख्यया 'सप्त' सप्तमङ्खयकाः पदार्था 'अन्ते' सयोगिकेवलिगुणस्थानकस्य चरमसमये युगपद् 'व्यवच्छिन्नाः' अपुनर्भावेना-ऽपगता भवन्ति । न चैषा सप्तपदार्थव्यवच्छित्तिः स्वमनीषिकया-ऽभिहिता, पूर्वमहर्षिभिरुक्तत्वात् । तथा चा-ऽऽहुः श्रीमन्मलयगिरिपादाः-"तस्मिंश्च सयोग्यवस्थाचरमसमये सूक्ष्मक्रिया-प्रतिपातिध्यानं सर्वाः किटयः स द्यबन्धो नामगोत्रयोरुदोरणा योगः शुक्ललेश्या स्थित्यनुभागघातश्चेति सप्तपदार्थाः युगपद्धयवच्छिद्यन्ते।” इति । भावार्थः पुनरयम्सयोगिगुणस्थानकचरमसमये सर्वा योगकिट्टयो व्यवच्छिद्यन्ते, सर्वथा तन्नाशस्य दर्शितत्वात् । योगकिट्टीनां व्यवच्छिन्नत्वाद् योगोऽपि व्यवच्छियते । न च फिट्टीनां नाशेन योगव्यवच्छेदोऽनुक्तः सिद्धः, कुतः पदार्थान्तरत्वेनोपदिश्यत इति वाच्यम् , मन्दबुद्धिजनानां सुखायोधाय प्रतिपादितत्वेन विरोधा-ऽभावात् । · करणवीर्यरूपस्य योगस्य व्यवच्छेदात् स्थितिघातरसघातलक्षणा-ऽपवर्तना, उदीरणा लेश्या बन्धश्च निवर्तन्ते, तेषां योगनिमित्तत्वात "निमि ता-5मावे नैमित्तिकस्याप्यभावः” इति न्यायोपलम्भाच्च । तृतीयध्यानस्य फलं योग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org