________________
सयोगिकेवलि चरमसमयः ] सोगिगुणस्थानाद्धाधिकारः
[ ४९१ प्रत्येक-स्थिरा-ऽस्थिरनाम्नां तथा शुभा-ऽशुभयोर्व्यवच्छिन्नः ।
उदयः पूर्वमेव सुस्वर-दुस्स्वरोच्छ्वासनाम्नाम् ।।२५९।। इति पदसंस्कारः ।। 'चरिमसमये' इत्यादि, तत्र 'सयोगिनश्च सयोगिकेवलिनश्चरमसमये च 'अन्यतरस्य वेदनीयस्य' साता-ऽसातयोरन्यतरवेदनीयकर्मणः 'औदारिकटिक-तैजस-कार्मण-संस्थानषटकानाम्' औदारिकद्विकस्य औदारिकशरीरौदारिकाङ्गोपाङ्गरूपस्य तेजसस्य तैजसशरीरनामकर्मणः कार्मणस्य कार्मणशरीरनामकर्मणः संस्थानपटकस्य समचतुरस्र-न्यग्रोधपरिमण्डल-सादि-बामन-कुब्ज-हुण्ड लक्षणस्य च, तथा 'प्रथमसंहनन-वर्णचतुष्कयोः' प्रथमसंहननस्य वज्रर्षभनाराचस्य वर्णचतुष्कस्य-वर्ण-गन्धरस-स्पर्शाख्यस्य च, तथा 'द्वयोः खगत्योः' प्रशस्तविहायोगतेरप्रशस्तविहायोगतेश्च 'अगुरुलघूपघातपराघात-निर्माणनाम्नाम्' अगुरुलघुनामकर्मण उपघातनामकर्मणः पराघातनामकर्मणो निर्माणनामकर्मणश्च 'प्रत्येक-स्थिरा-ऽस्थिरनाम्नां' प्रत्येकनामकर्मणः स्थिरनामकर्मणो-ऽस्थिरनामकर्मणश्च 'शभा-ऽशभयोः' शुभनामकर्मणो-ऽशभनामकर्मणश्चोदयो व्यवच्छिन्नः । तत्रैकतरं वेदनीयं यदयोगिकेवलिना न वेदयितव्यम् , तत् सयोगिकेवलिचरमसमय उदयतो व्यवच्छिद्यते,अयोगिगुणस्थानके वेदनीयोदयस्य परावृत्तेरभावात् । तथा नामकर्मणोऽप्युक्तौदारिकद्विकादिप्रकृतयो व्यवच्छिनोदया भवन्ति, उतरत्रोदया-ऽभावात् ।
इह मूले सयोगिकेवलिगुणस्थानकवरमसमये नामकर्मणः सप्तपष्टिभेदानाश्रित्य पड्विंशतिनामकोत्तरप्रकृतीनामुदयविच्छेदो-ऽभिहितः, व्यधिकशतभेदाँस्त्ववलम्ब्य द्वापञ्चाशत्प्रकृतीनामुदयविच्छेदो वक्तव्यः, औदारिकद्विकमपनीयौदारिकशरीरौदारिकाऽङ्गोपाङ्गौदारिकौदारिकबन्धनौदारिकतैजसबन्धनौदारिककार्मणबन्धनौदारिकतैजसकार्मणबन्धनौदारिकसंघातनलक्षणौदारिकसप्तकस्य तैजस-कार्मणलक्षणशरीरद्वयममपनीय तैजसशरीर-तैजसतैजसबन्धन-तैजसकार्मणवन्धनतेजससंघातन-कार्मणशरीर-कार्मणकार्मणबन्धन-कार्मणसंघातनाख्यतैजससप्तकस्य वर्णचतुष्कश्चा-ऽपनीय कृष्ण-नील-लोहित-हारिद्र-शुक्ल-तिक्त-कटु-कषाया-ऽऽम्ल-मधुर-सुरभि-दुरभि-गुरु-लघु-मृदु-खरशीतोष्ण-स्निग्व-रूक्षरूपविंशतिप्रकृतीनां प्रक्षेपात् । .
ननु सयोगिकेवलिचरमसमये सुस्वर-दुःस्वरोच्छ्वासनामकर्मणामप्युदयविच्छेदः कुतो नोक्तः ? इत्यत आह-'पुव्वं' इत्यादिः, पूर्वमेव 'सुस्वर-दुःस्वरोच्छ्वासनाम्नां' सुस्वरनामकर्मणो दुःस्वरनामकर्मण उच्छ्वासनामकर्मणश्चोदयो व्यवच्छिन्नः, वागयोगनिरोधकाले सुस्वर-दुःस्वरयोरुच्छ्वासनिरोधकाले चोच्छ्वासस्योदयो व्यवच्छिन्न इत्यर्थः । यदुक्तं सप्ततिकाचूर्णी-"तम्मि चेव समए ओरालिय-तेया-कम्मइगसरोरसंबडाणं बंधण-संघाय छन्हं संठाणाणं पढमसंघयण-ओरालियंगोवंगं वण्ण-गंध-रस-फास-अगुरु० उवघाय-पराघाय-विहग०२पत्तेय-थिराथिर-सुभासुभ-निमेणणामाण एएसिं कम्माणं उदओदीरणाणं वोच्छेओ, ऊसास-सरा हेडओ निरुडा।” इति । अत्र चूर्णिकारैर्नामकर्मण एवोदयोदीरणाविच्छेदः प्रदर्शितः, तेना-ऽन्यतरवेदनीयस्योदयविच्छेदो नोल्लिखितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org