________________
४८८ ]
खवगसेढी -
[गाथा-२५६ प्रमाणा स्थितिर्भवति, येषां तूदयो न भवति, तेषां निवेकमाश्रित्य समयोना भवति, प्रथमनिषेकस्य स्तिबुकसंक्रमेण संक्रान्तत्वात् । कालमाश्रित्य त्वयोगिगुणस्थानककालप्रमाणा भवति, यथा बन्धेवाधास्थितौ दलाऽभावे-ऽपि स्थितिश्वरमनिषकमाश्रित्य भण्यते, तथैवात्राऽपि चामनिषेकमाश्रित्य स्थितिरयोगिगुणस्थानकालप्रमाणा भग्यते । प्रत्यपादि च सातिकाचूर्णी-"तस्स चरिमसयोगिकेवलिस्स कम्माणि उव्वहिजमाणाणि उव्वहिजमाणाणि सव्वोवट्टणाए उव्वहियाणि अजोगिकेवलिकालसमठितियाणि जायाणि । जेसिं कम्माणं अजोगिम्मि उदओ नत्थि, तेसिं ठित समऊणं ठवेइ दलिअं पडुच्च न कालं ।" इति।
तथा सयोगिगुणस्थानकचरमसमये नरकद्विक-तिर्यद्रिक-पञ्चेन्द्रियजातिरहितशेषजातिचतु. ष्टय-स्थावर-सूक्ष्म-साधारणा-ऽऽतपोद्योतनामानि वर्जयित्वा शेषाणां नामकर्मनवतिप्रकृतीनां (९०) वेदनीयद्विकस्य गोत्रद्विकरय च जघन्यस्थितिसंक्रमो भवति । अभ्यधायि च कर्मप्रकृतिचूर्णी"चरिमसजोगे जा अस्थि,तासिं सो चेव'जोगंतिया चउणउती पुव्ववणिया,तासिं सो चेव सजोगिकेवली चरिमोवटणे वद्यमाणो सामो।" इति । तदानीमेव मनुष्यगतिपञ्वेन्द्रियजात्यौदारिकसप्तक-तैजससप्तक-प्रथमसंहनन-संस्थानषटक-वर्णादिविंशतिक-प्रशस्ताऽप्रशस्तखगति-पराघातोपघाता-ऽगुरुलघु-तीर्थङ्कर-निर्माण-बस-बादर-पर्याप्त-प्रत्येक-स्थिराऽस्थिर-शुभा-ऽशुभ-सुभगा-ऽऽदेय-यशःकीच्युच्चैर्गोत्ररूपाणां द्वापष्टिप्रकृतीनां (६२) जघन्यस्थित्युदीरणा गुणितकर्माशस्य च महात्मन एतासां प्रकृतीनामुत्कृष्टप्रदेशोदीरणा जायते । इह कर्मप्रकृतिचूर्णिकारादिभिः स्वरद्विकस्योच्छ्वासस्य च प्रकृत्युदीरणोत्कृष्टप्रदेशोदीरणे क्रमेण वाग्योगनिरोधकाल उच्छ्वासनिरोधकाले च दर्शिते, अक्षराणि त्वेवम्-"उस्सासणामस्स आणपाणुपन्जत्तीए पजत्ता सव्वे उदोरगा सुस्सरदुस्सराणं भासापजत्तोए पज्जत्तगा उदोरगा। 'सव्वणणस्सासो भासा वि य जा ण रुज्झंति' सव्वण्णणं केवलोणं उस्सासभासातो जाव ण निरुज्झंति, ताव उदीरेति, परत्थ उदयाभावातो स्थि उदीरणा । xxxxसरणिरोहकालम्मि सुस्सरदुस्सराणं सो चेवुक्कोसपदेसुदीरतो(...गो) आणपाणुणिरोहसमते सो चेव केवली आणपाणणं । इति । तेषां जघन्यस्थित्युदीरणा पुनः सयोगिकेवलिचरमसमये प्रोक्ता,अक्षराणि त्वेवम्- “मणुयगति-पंचिदियजाति-उरालियसत्तगं छसंठाण-पढमसंघयणं उवघायं परघायं उस्सासं पसत्थापसत्थविहायगति-तसं बायरं पजत्तगं पत्तेयसरीरं सुभगं सुसरं दुसरं आएज्जं जसं तित्थकरं उच्चागोयं, एत्ताओ बत्तीसं धुवोदीरणातेतीससहितातो पणसहि होति । एतासिं उदीरणते त्ति सयोगिकेवलिचरमसमये जहणिया हिदिउदीरणा होइ ।” इति । तदत्र प्रकृत्युदीरणाभावे कथं स्थित्युदीरणा भवति ? इति वयं न विद्मः तेषां कोऽभिप्राय इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org