________________
सुस्वर-दुःस्वरोच्छ्वासानामुदयविच्छेद आक्षेप-परिहारौ ] सयोगिगुणस्थानाद्धाधिकारः [४८९ *अतो वयमपि तथैव दर्शयामः । न चैकान्तेन युक्त्युपन्यास आग्रहः कार्यः, अतीन्द्रियपदार्थेषु तर्काणामकिञ्चित्करत्वाद् आगमोपपत्तिगम्यमानत्वाच्च तत्वस्य, यदुक्तं योगविन्दौ दुःषमान्धकारप्रदीपैर्जिनप्रवचनकुशलैः श्रीहरिभद्रसूरिपादैः
“यत्नेनाऽनुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥१॥ ज्ञायरन हेतुवादेन पदार्था यद्यतीन्द्रियाः। कालेनैतावता प्राज्ञैः कृतः स्यात्तेषु निश्चयः ॥२॥ न चैतदेवं यत्तस्माच्छुष्कतर्कग्रहो महान् ।
मिथ्याभिमानहेतुत्वात्त्याज्य एव मुमुक्षुभिः ॥३॥” इति । उक्तश्चाऽन्यत्राऽपि-"आगमश्चोपपतिश्च सम्पूर्ण दृष्टिलक्षणम् ।
___अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये ॥१॥” इति । एवं चरमसमये पञ्चपष्टिप्रकृतीनां जघन्यस्थित्युदीरणा भवति । अथवा कर्मप्रकृतिचूर्णिकारादिभिर्यदुक्तं सयोगिकेवलिगुणस्थानकचरमसमय उच्छ्वासस्य जघन्यस्थित्युदीरणा भवतीति, तत् सामान्येना-ऽभिहितम् , “व्याख्यानतो विशेषप्रतिपत्तिनहि संदेहादलक्षणम् ।” इति न्यायेनोच्छ्वासं निरुन्धानस्य सयोगिकेवलिनश्चरमसमय उच्छवासस्य जघन्यस्थित्युदीरणा भवति । एवं वाग्योगं निरुन्धतः सयोगिकेवलिनश्चरमसमये सुस्वर-दुःस्वरयोजघन्यस्थित्युदीरणा भवतीति व्याख्येयम् . । तत्वं तु केवलिनो बहुश्रुता वा विदन्ति । .
धवलाकारास्तु सुस्वरदुःस्वरयोरुच्छवासस्य च प्रकृत्युदयं क्रमेण वागयोगनिरोधकालमुच्छवासनिरोधकालं च यावत् प्रतिपादयन्ति । अक्षराणि त्वेवम् – “उस्सास्सारणापारणपज्जत्तीए पज्जत्तयदो जाव चरिमसमय उस्सासरिगरोहकारम्रो ति ताव वेदनो। xxx सुस्सरदुस्सराणं को वेदप्रो? भासापजत्तीए पज्जत्तदो जाव भासारिगरोहस्स अकारो त्ति' इति । एवमुत्कृष्टप्रदेशोदीरणामपि निरूपयन्ति । किन्तु प्रकृत्युदोराणां जघन्यस्थित्युदीरणां च सयोगिकेवलिचरमसमयं यावद् व्याहरन्ति । अक्षराणि त्वेवम् – “उस्सासणामाए मिच्छाइटिपहुडि जाव सजोगि चरिमसमयो ति [उदीरणा] xxx सुस्सरदुस्सराणं मिच्छाइटिप्पहुडि जाव सजोगिकेवलिचरमसमो त्ति उदीरणा। xxx अगुरुलघुप्र--उवघाद-परघाद-उस्सास-पसत्थापसत्थविहायगदि-तस-बावर-पज्जस-पत्तेयसरीर-थिराथिर-सुहासुह-सुभग-सुस्सर-दुस्सर-प्रादेज्ज-जसगित्ति-तित्थयर-रिणमिणणामारणं जहण्गट्टिदिउदीरो को होदि? चरिमसमयसजोगी ।" इति । इत्थं वाग्योगोच्छवासयोः प्राग निरुद्धत्वात् सुस्वर-दुःस्वरोच्छवासानां प्रकृत्युदयं धिना सयोगिकेत्रलिचरमसमये तेषां प्रकृत्युदीरणा जघन्यस्थित्युदीरणा च कथं भवेताम्? उदयाभावे उदीरणाऽयोगादिति ना-ऽवबुध्यते तदभिप्रायः ।
व्याख्यातश्चैतदर्थः सत्कर्मपञ्जिकायामपि--"एत्य जाव सयोगिकेवलिचरिमसमयो ता उस्सासमुदीरेदि त्ति उत्ते उस्सासगिरोहं करेंतकेवलिचरिमसमयो जाव तावेदस्सुस्सासुदीरणा जोव-पदेसारणं परिप्फंदमुस्सासरुवं च करेदि । तत्तो परं ते दोषिण वि कज्जारिग करेदुमसत्था होदूरण तत्थ फलं सगरूवेणं पदेसरिणज्जरं रण करेदि त्ति वत्तव्वं ॥” इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org