________________
अयोगिकेवलिकालतुल्यस्थितिकरणादिकम् ] सयोगिगुणस्थानाद्धाधिकारः
[४८७ जइ छउमत्थस्स मणोनिरोहमेत्तप्पयत्तयं झाणं ।
कह कायजोगरोहप्पयत्तयं होइ न जिणस्स ? ॥४॥” इति । तथैव गुणस्थानकक्रमारोहेऽपि
"छद्मस्थस्य यथा ध्यानं मनसः स्थैर्यमुच्यते ।
तथैव वपुषः स्थैर्य ध्यानं केवलिनो भवेत् ॥१॥" किञ्च जीवोयोग सद्भावाजिनागमवचनप्रामाण्याच सिध्यति सयोगिकेवलिनो ध्यानम् । तृतीयशुक्लध्यानोपगतः काययोगे परमशुक्ललेश्यायां च वर्तते, यदुक्तं ध्यानशतके
"पढमं जोगे जोगेसु वा मयं बितियमेकजोगम्मि । तइयं च कायजोगे सुक्कमजोगंमि य चउत्थं ॥१॥ सुकाए लेसाए दो ततियं परमसुक्कलेसाए।
थिरया जियसेलेसिं लेसाईयं परमसुकं ॥२॥” इति । तृतीयशुक्लध्यानं ध्यायन वेदनीयादीनां च स्थितिघातादीन् कुर्वन् योगकिट्टीव विनाशयन् सयोगिगुणस्थानकचरमसमयं प्राप्नोति, तदानीं योगं निमूलतो नाशयति, तद्वयाजिहीपुराह'चरिमें' इत्यादि, 'चरमे समये' सयोगिकेवलिगुणस्थान स्यान्त्यसमये 'सर्वाः'अशेषाः 'किट्टीः' योगकिट्टीः 'विनाशयति' निःशेषतो नाशयति, इत्थं निश्चयनयमाश्रित्य सयोगिकेवलिगुणस्थानकचरमसमये सर्वात्मना योगकिट्टिनाशो जायमानो जातः । तदेवं समर्थितो योगनिरोधः ।
____ अथ सयोगिकेवलीचरमसमयेऽयोगिकेवलिकालतुल्यस्थितिकरण-जघन्यस्थितिसंक्रमादयो भण्यन्ते-सयोगिकेवलिगुणस्थानकचरमसमये चरमस्थितिघातेन नाम-गोत्र-वेदनीयानामयोगिगुणस्थानकोपरितनस्थितिं घातयित्वोदये स्तोकं दलं ददाति, ततो-ऽनन्तरे द्वितीयस्मिनिषेके-ऽसंख्येयगुणं दलं ददाति । ततो-ऽपि तृतीयनिषेके-ऽसंख्येयगुणं ददाति । एवमसंख्येयगुणक्रमेण तावद् ददाति, यावदयोगिकेवलिगुणस्थानकस्य चरमसमयः ।
इत्थं सयोगिगुणस्थानकचरमसमये सर्वाग्यपि कर्माण्ययोगिकेवलिगुणस्थानककालसमस्थितिकानि जातानि, येां च कर्मणामयोग्यवस्थायामुदयाऽभावः,तेषां स्थिति स्वरूपं प्रतीत्य समयोनां विदधाति । सामान्यतः सत्ताकालं तु प्रतीत्या-ऽयोग्यवस्थासमानामिति । कुतः ? इति चेत्, उच्यतेअनुदयवत्यः प्रकृतयश्चरमसमये स्तिबुकसंक्रमेणोदयवतीषु संक्रमिष्यन्ति, तेन चरमसमये स्वरूपेण न प्राप्स्यन्ते, किन्तूदयवत्प्रकृतिरूपेण प्राप्स्यन्ते । तेनोदयवतीनां प्रकृतीनां दलिकं कालमाश्रित्याऽयोगिचरमसमयं यावत् स्वस्वरूपेण स्थास्यति, उदयरहितानां प्रकृतीनां दलिकं तु द्विचरमसमयंयावत् स्वरूपेण, चरमसमये स्तिबुकसंक्रमणेन तासां संक्रमयिष्यमाणत्वेन परस्वरूपेणोपलम्भात् ।
यद्वा येषां कर्म गामयोगिकैवलिगुणस्थानकयुदयो भवति, तेषामयोगिकेवलिगुणस्थानकाल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org