________________
४८६ ]
aarसेढी
[ गाथा - २५६
दहनसामान्याद् युक्तमेव भगवतो ध्यानम्, यदभिहितम् आवश्यकचूर्णी- "इह यथा पृथक्त्वेक व वितर्कपूर्वशुक्लध्यानद्रयपरिणत आत्माऽर्थान् चिन्तयन् साम्परायिकं दहति, यथा वा धर्मस्य ध्याने परिणतः कर्मपर्वतं क्षपयति, तथा सूक्ष्मक्रिया-प्रतिपातिव्युपरत क्रियानिवृत्तिध्यानद्वय परणितोऽप्यात्मा असत्यामपि चिन्तायां कर्म क्षपयतीत्यतः कर्मक्षपणसामान्यात् ध्यानमिव ध्यानमिति सिडम् ।" इति । न च ध्यानस्य कर्मक्षपण सामर्थ्यमसिद्धमिति वाच्यम्, पूर्वमहर्षिभिर्थ्याने कर्मविनाशसामर्थ्यस्य प्रतिपादित्वात् । तथा चात्र ध्यानशतकम् -
"अंबर- लोह-महोणं कमसो जह मल-कलंक-पंकाणं । सोझाव यणसोसे साहेति जलाऽणलाइच्चा ॥ १॥ तह सोज्झाइस मत्था जीवंबर - लोह - मेइ णिगयाणं । झाण-जल-Sणलसूरा कम्म-मल-कलंक- पंकाणं ॥२॥ तापो सोसो भेओ जोगाणं झाणओ जहा निययं । तह ताव - सोस भैया कम्मस्स वि झाइणो नियमा ||३||" इति ।
(२) यद्वा यथा छद्मस्थस्य सुनिश्चलं मनो ध्यानं भण्यते, तथैवाऽस्य सयोगिकेवलिनो योगत्याsoयभिचारात् सुनिश्चलः कायो ध्यानमुच्यते, इत्थं युक्तमेव भगवतो ध्यानम्, निश्चलत्वसामान्यात्, तथा चोतं ध्यानशतके -
2
"जह छउमत्थस्स मणोझाणं भण्णइ सुनिच्चलो संतो । तह केवलिणो काओ सुनिच्चलो भन्नइ झाणं ॥ १ ॥” इति । (३) अथवा मनोविशेष एव ध्यानमित्यनैकान्तिकम् । इदमुक्तं भवति यथा ध्यै चिन्तायाम्,
तथा ध्यैधातुः काययोगनिरोधेऽपि, नानार्थत्वाद् धातूनाम्, यदुक्त' - "निपाताश्चोपसर्गाश्च धातवश्चेति त्रयः ।
अनेकार्थाः स्मृताः लोके पाठस्तेषां निदर्शनम् ॥ १ ॥” इति । अतः सयोगिकेवलिनां कायनिरोधप्रयत्नस्वरूपं ध्यानमुपपद्यते । उक्तं च विशेषाऽऽवश्यकभाष्यकार महर्षिभिः-
Jain Education International
"झाणं मणोविसेसो तदभावे तस्स संभवो कत्तो । भण्णइ भणियं झाणं समए तिविहे वि करणंमि ॥ १ ॥ सुदढप्पयत्तवावारणं निरोहो व विजमाणाणं । झणं करणाणमयं न उ चित्तनिरोहमित्तागं ॥२॥ होज न मणोमयं वाइयं च झाणं जिणस्स तदभावे । कायनिरोधपत्तयस्स भावमिह को निवारेइ ॥ ३ ॥
For Private & Personal Use Only
www.jainelibrary.org