SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ आवश्यकचूर्णिकारादीनां मतेन योगनिरोधः ] सयोगिगुणस्थानाद्धाधिकारः [ ४७३ अयुक्तमिति चेत्, न, दृष्टत्वात्, तद्यथा-कारपत्रिका क्रकचेन स्तंभे छिदिक्रियां प्रारभमाणः तत्स्थस्तमेव छिनत्ति, तथा काययोगोपष्टंभात् काययोगनिरोधो-ऽप्यवसेयः ।” इति । अत्र श्रीशतकचूर्णिकारादयस्तु सूक्ष्मकाययोगोपष्टम्भेन बादरकाययोगं निरणद्धीत्यभिदधते । तथा चा-ऽत्र श्रीशतकचूर्णि: "यादरतणुमवि णिरुणडि तओ सुहुमेण कायजोगेण । ण णिरुज्झए उ सुहुमो जोगो सइ बायरे जोगे ॥१॥” इति । बादरकाययोगनिरोधप्रथमसमयतः प्रभृत्यन्तमुहर्त यावत् पूर्वस्पर्धकानामधस्ताद् योगस्याऽपूर्वस्पर्धकानि करोति । तत ऊर्च योगस्य किट्टीः कर्तु मारभते, अन्तर्मुहूर्तकालेन च सर्वेषां पूर्वा-ऽपूर्वस्पर्धकानां किट्टीः करोति,योगस्पर्धकानि च स्वरूपतो निश्शेषं नाशयति, यदुक्तं श्रीतत्त्वार्थवृत्तौ "नाशयति काययोगं स्थूलं सोऽपूर्वफड्डकोकृत्य।। शेषस्य काययोगस्य तथा किट्टीश्च स करोति ॥१॥” इति । किट्टिकरणचरमपमयादनन्तरमन्तर्मुहूर्तं यावत् किट्टिगतयोगो भवति, तदानीं च न किञ्चिदपि करोति, यदुक्त श्रीमन्मलयगिरिपादैः पञ्चसंग्रहवृत्तौ-"किट्टिकरणा-ऽवसानानन्तरं च पूर्वस्पर्धकान्यपूर्वस्पर्धकानि च नाशयति। तत्समयादारभ्य च अन्तर्मुहूर्त यावत् किष्टिगतयोगो भवति । न चात्र किञ्चिदपि करोति ।” इति । ततः सूक्ष्मकाययोगवलेन सूक्ष्मवचनयोग निरोद्धमारभते, अन्तमुहूर्तेन च कालेन सर्वथा निरुणद्धि । ततोऽन्तमुहूर्तमास्ते, नाऽन्यसूक्ष्मयोगनिरोधे प्रयतते, ततः सूक्ष्मकाययोगवलाधानात् सूक्ष्ममनोयोगं निरोद्धमारभते । अन्तमुहूर्तकालेन सूक्ष्ममनोयोगं सर्वात्मना निरुणद्धि, निरुद्ध सूक्ष्ममनोयोगो-ऽन्तमुहूर्तमास्ते, अन्ययोगनिरोधं न करोति । ततोऽन्तमुहूर्तप्रमाणकालस्योपर्यनन्तरसमये सूक्ष्मकाययोगोपष्टम्भात् सूक्ष्मकाययोग निरोधुमारभते, उक्त च आवश्यकचूर्णी-“अत्र काययोगं निरुधन पूर्वस्पर्धकानामधस्तादपूर्वस्पर्धकानि करोति । अथ किमिदं स्पर्धकमिति प्रश्ने व्याचक्ष्महे-स्पर्धकमिव स्पर्धक, क उपमार्थः ? यथा लोके शालिफलककाणशानां समुदायात् मुष्टिर्भवति, या स्पर्धकमिति शब्द्यते,कथमिति तद्विवृण्महे-'स्पर्द्ध-संहर्षे' इति शब्दाद् भवति स्पर्धकं संहर्षः समुदायः पिण्ड + मूला-ऽऽराधनकारा अपि सूक्ष्मकाययोगबलेन बादरकाययोग निरुणद्धीति मन्यन्ते, तथा च तद्ग्रन्थः 'बादरवचिजोगं बादरेण कायेण बादरमणं च । बादरकायं पि तधा रुभदि सुहुमेण काएरण ॥१॥" इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy