SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ ४७२ ] खवगसेढी [ गाथा-२४४ बायरवय-मण-उस्सास-कायजोगा निरुम्भइ कमेण । तत्तो सुहुमवयण-मण-तनुजोगा त्ति इगउवएसो॥२४४॥ बादरवचो-मन-उच्छवास-काययोगान् निरुणद्धि क्रमेण। ततः सूक्ष्मवचन-मनस्तनुयोगानित्येकोपदेशः ।।२४४॥ इति पदसंस्कारः । 'बायर' इत्यादि, 'बादरवचो-मन-उच्छ्वास-काययोगान्' समुद्घातं गत्वाऽगत्वा वा बादरवचोयोगं बादरमनोयोगमुच्छ्वासं बादरकाययोगं च 'क्रमेण' परिपाटया निरुणद्धि । 'तत्तो' त्ति 'ततः' बादरयोगनिरोधतः परं 'सूक्ष्मवचन-मनस्तनुयोगान्' "इन्द्रादौ द्वन्द्वान्ते च श्रयमाणं पदं प्रत्येकं सम्बध्यते।” इति न्यायात् सूक्ष्मवचनयोगं सूक्ष्ममनोयोगं सूक्ष्मतनुयोगं च क्रमेण निरुणद्धि, 'इति' इतिशब्दः समाप्तियोतकः, समाप्तः एक उपदेशः' आवश्यकचूर्णिकारादीनामभिप्रायः । अयं भावः-समुद्घातं परिसमाप्य समुद्घातमप्रतिपन्नस्त्वायोजिकाकरणं विधाया-5 न्तमुहूर्तं गत्वा केवली भगवान् बादरकाययोगबलेन बादरवचनयोगं निरोद्धमुपक्रमते, अन्तमुर्तेन कालेन वचनयोगं सर्वथा निरुणद्धि । ततोऽन्तमुहर्तमास्ते, योगनिरोधं न करोतीत्यर्थः । ततो बादरकाययोगोपष्टम्भाद् बादरमनोयोगं निरोद्धमारभते, अन्तम हूतकालेन निःशेषतो बादरमनोयोगं निरुणद्धि । उक्तं च तत्वार्थवत्ती "बादरतन्वा पूर्व वाङ्मनसे बादरे स निरुणहि क्रमेणैव । आलम्बनाय करणं हि तदिष्टं तत्र वीर्यवतः॥१॥” इति । मनोयोगनिरोधानन्तरमन्तमुहूर्त स्थित्वा वादरकाययोगबलेनोच्छ्वासं निरोहुमुपक्रमते, अन्तमुहर्तकालेन चोच्छवासं सर्वात्मना निरुणद्धि । ततो-ऽन्तमुहूर्त विश्रम्य बादरकाययोगवलेन बादरकाययोगं निरोद्ध प्रवर्तते, अन्तमुहूर्तकालेन तं सर्वात्मना निझगद्धि, यदुक्तम् आवश्यकचूर्णी-"ततः स्वशरीरं प्रविष्टोऽन्तर्मुहूर्तमास्ते, तत उपर्यनन्तरसमय एव यादरवाग्योगान् रोदधुमारब्धः, ततोऽन्तमुहूर्तपूरणसमय एव बादरकाययोगबलाधानाद् बादरवाग्योगो निरुध्यमानो निरुडः, ततो बादरवाग्योगं निरुध्या-ऽन्तमुहूर्तमास्ते, न बादरयोगनिरोधः प्रवर्तत इत्यर्थः, तत उपर्यनन्तरं बादरमनोयोगं निरोडुमारब्धः, ततोऽन्तर्मुहूर्तस्या-ऽन्त्ये समये बादरकाययोगोपष्टंभात् बादरमनोयोगो निरुध्यमानो निरुडः । ततोऽन्तर्मुहूर्त स्थित्वोपर्यनन्तरसमय एव उच्छ्वासनिःश्वासौ निरोडमारब्धः, ततोऽन्तमुहूर्तस्या-ऽन्त्ये समय बादरकाययोगोपष्टम्भात् उच्छ्वासनिःश्वासौ निरुध्यमानौ निरुहौ, ततोऽन्तर्मुहूर्त स्थित्वोपर्यनन्तरसमय एव बादरकाययोर्ग निरोधुमारब्धः, ततोऽन्तमुहूर्तस्याऽन्त्ये समये बादरकाययोगो निरुध्यमानो निरुद्धः, तत्स्थः तमेव क्षपयतीत्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy