________________
४७४ ]
खवगसेढी
[गाथा-२४४ इत्यनर्थान्तरं, अथ केषां संघर्ष इति प्रश्ने व्याचक्ष्महे-इह यथा बहू समुदायः क्षणे (कंडक) संभवति । बहूनां च काण्उकस्थकाणशानां [शालिफलकणानां] समुदायात् मुष्टिरिति भवति, तथा शालिफलकणतुल्यानामसंख्येयानां लोकानां ये प्रदेशास्तत्प्रमाणप्रमितानामविभागपरिच्छेदानां भावपरमाणुसजितानां समुदायात् काणसतुल्या वर्गणा भवति । एवमसंख्येया वर्गणा श्रेण्या असंख्येयभागप्रमाणा एकजोवे भवन्ति । तासां च बहुकाण्डस्थकणकाणशसमुदायोत्पन्नमुहितुल्यानां असंख्येयानां वर्गणात श्रेण्याः असंख्येयभागमात्राणां समुदायादेकं स्पर्धकं भवति । एवमसंख्ययानि स्पर्धकानि श्रेण्या असंख्येयभागमात्राण्येकजीवे सन्ति। - अथ किमिदं पूर्वस्पर्धमानि अपूर्वस्पर्धकानीति च प्रश्ने व्याचक्ष्महेयानि पर्याप्तिपर्यायेण परिणमितात्मना पूर्वमेव योगनिर्वर्तनार्थमुपात्तानि, यानि चानादौ संसारे पुनः पुनर्योगनित्यर्थं पूर्वमुपात्तान्यात्मना, तानि पूर्वस्पर्धकानि इत्यभिधीयंते, तानि च स्थूलानि । यान्यधुना क्रियन्ते, तानि सूक्ष्माणि, न च तथालक्षणानि अनादौ संसारे परिभ्रमता आत्मना कदानिदप्युपात्तानि इत्यतोऽपूर्वस्पर्धकानि व्याख्यायन्ते। . अथा- पूर्वस्पर्धककरणे को विधिरिति प्रश्ने-ऽभिदध्महे-अधस्तात्पूर्वस्पद्र्धकानामादिवर्गणा यास्तासां अविभागपरिच्छेदा ये, तेषामयं योगजधर्मानुग्रहादसंख्येयान् भागानाकर्षति, असंख्येयभागं स्थापयति, जोवप्रदेशानामपि च असंख्ययभागमावर्षयति *, असंख्येयान् भागान् स्थापयति, एवं प्रथमसमये, द्वितीयसमये प्रथमसमयाकृष्टाविभागपरिच्छेदानां असंख्येयेभ्यो भागेभ्यः सकाशादसंख्येयगुणहोनं भागमाकर्षयति, असंख्येयभागमाकर्षयतीत्यर्थः, जीवप्रदेशानामपि च प्रथमसमयाकृष्टजीवप्रदेशासंख्येयभागसकाशादसंख्येयगुणभागमाकर्षयति,असंख्येयभागानाकर्षयतोत्यर्थः । एतेन विधिना-Sऽकृष्य योगजधर्मानुग्रहादपूर्वस्पर्धकानि करोति । एवं समय समये भागं करोति, यावत्पूर्णो-ऽन्त
___ * ननु किं नाम जीत्रप्रदेशानामाकर्षणम् ? न चा-ऽऽत्मप्रदेशानाम गाइनां द्वित्रिभागप्रमाणां कर्तुं जीवप्रदेशानां सङ्कोचनं तदिति वाच्यम् , सूक्ष्मक्रिया-ऽप्रतिपातिध्यानसामर्थ्येन निरुक्ताऽवगाहनानिवृत्तेवक्ष्यमाणत्वादिति चेत् , उच्यते प्रथमसमयेऽसंख्येयभागमात्रजीवप्रदेशान् पूर्वस्पर्धकप्रथमवर्गणातोऽसंख्येयगुणहीने योगे परिणमयति, ततोऽसंख्येयगुणाजीवप्रदेशान् पूर्वस्पर्धकप्रथमवर्गणातो-ऽसंख्येय. गुणहीने योगे द्वितीयस्मिन् समये परिणमयति, ततोऽप्यसंख्येयगुणाजीवप्रदेशांस्तृतीयसमये । एवमग्रेऽपि । इत्थं हीने हीनतरे योगे जीवप्रदेशानां परिणमनं जीवप्रदेशानामाकर्षणमुच्यते, योगस्या-ऽल्पीकरणं तु योगाऽविभागानामाकर्षणं भण्यत इत्यल विस्तरेण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.