________________
.
४७० ]
खवगसेढी
[गाथा-२४२-२४३ विणिवत्तसमुग्धाओ तिनि वि जोए जिणो पउंजेज्ज । सच्चमसच्चामोसं च सो मणं तह वईजोगं ॥१॥ ओरालियकाओगं गमणाई पाउिहारियाणं वा। पच्चप्पणं करेजा जोगनिरोहं तओ कुरुए ॥२॥” इति ।
एवमावश्यकचूर्णिकारैरप्युक्तम्-"ततो पडियागतो तिविहं पि जोगं जुजति, वइजोगस्स सच्चाइजोगं जुजति, चउत्थं आमंतणादी, मणे वि एते चेव जोगे दोषिण, ते पुण किह होज ? मणसा पुच्छेज कोइ, तेसिं मणसा वागरेति, अणुत्तरो अण्गो वा देवमणुयो, कायजोगं गच्छेज वा चिट्ठणठ्ठाणणिसीयणतुयटणाणि गच्छणे उक्खेवणसंखेवणउल्लंघणपल्लंघणतिरियणिक्वेवणादोणि, पाडिहारियं वा पोठकादि पच्चपिणेजा।” इति । अयं सयोगी केवली भगवान् निवाण यियासुः समुद्घाततः प्रतिनिवत्तोऽन्तमुहर्तमास्ते, ततो योगं निरोद्ध प्रयतते । कुतः ? इति चेत् ? उच्यते-सति योगे द्विसामयिकस्थितिकस्य सातवेदनीयकर्मबन्धस्य प्रवृत्तत्वेन कर्मादानसन्ततिसद्भावादात्मनो मोक्षो न स्यात् । अतो योगनिमित्तकवन्धरोधार्थं लेश्यानिरोधार्थं च योगनिरोधमारभते, यदभ्यधाथि सिद्धसेनीयतत्त्वार्थवृत्तौ
स ततो योगनिरोधं करोति लेश्यानिरोधमभिकाङ्क्षन् । समसमयस्थितिबन्धं योगनिमित्तं स हि रुरुत्सन् ॥१॥ समये समय कर्मादाने सति सन्ततेन मोक्षः स्यात् । यद्यपि हि न मुच्यन्ते, स्थितिक्षयात् पूर्वकर्माणि ॥२॥ नोकर्मणाणि वीर्य योगद्रव्यण भवति जीवस्य ।। तस्याऽवस्थाने ननु सिद्धः समयस्थितिबन्धः ॥३॥” इति ।
तत्र योगनिरोधव्याख्यानं द्विविधम् , संक्षेपविस्तरभेदात् । संक्षिप्तव्याख्यानं भूले न दर्शितम् , सुगमत्वात् । तथाहि-समुद्घाततो निवृत्तो-ऽन्तमुहूर्ते गते योगनिरोधं कुर्वन् प्रथममेव याऽसौ शरीरसम्बद्धा मनःपर्यातिः, यया च पूर्व मनोद्रव्यग्रहणं कृत्वा भावमनः प्रयुक्तवान्, कर्मसंयोगविघटनाय मन्त्रसामर्थेन विषमिव स भगवाननुत्तरेणा-ऽचिन्त्येन निरावरणेन करणवीर्येण तद्वयापार निरुणद्धि । तद्यथा-पर्याप्तसंक्षिपञ्चेन्द्रियजघन्ययोगिनो यो मनोयोगो भवति, ततो-5प्यसंख्येयगुणहीनं मनोयोगं प्रतिसमयं निरुत्वन्नन्तमुहूर्तेन कालेन सर्वथा निरुणद्धि । ततः पर्याप्तद्वीन्द्रियजघन्यवचनयोगतो-ऽसंख्येयगुणहीनं वचनयोगं प्रतिसमयं निरुधानोऽन्तमुहूर्तकालेन निःशेषतो निरुणद्धि । एवं प्रथमसमयोत्पन्नसूक्ष्मपनकस्य जघन्ययोगतोऽसंख्येयगुणहीनं काययोगं प्रतिसमयं निसन्धानोऽन्तमुहूर्तेन सर्वथा निरुणद्धि, यदुक्तं विशेषावश्यकभाष्ये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org