________________
समुद्घातावस्थायां योगः] सयोगिगुणस्थानाद्धाधिकारः
[४६९ कानामसंख्येयैर्विभजनादेकस्थितिखण्डमावलिकाऽसंख्येयभागमात्रं स्यात् । तस्मात् संख्येयस्थितिखण्डानि व्यतिक्रामन्तीत्यावश्यकचूर्गिकारादीनां वचनं न्याय्यं प्रतीयते । एवमनुभागखण्डान्यपि संख्ययानि प्रकारान्तरेण साधयितव्यानि ।। ____ अथ समुद्घातावस्थायां योगश्चिन्त्यते-न तावद् मनोयोगो वाग्योगो वा संभवति, प्रयोजनाऽभावात् । उक्तं च धर्मसारप्रकरणे-"मनोवचसी तु तदा न व्यापारयति, प्रयोजनाऽभावात् ।” इति । तथैव आवश्यकचूामपि-"तत्थ समुग्घातस्स मणवइजोगो णस्थि ।" इति । काययोगो-ऽप्योदारिकादिना-ऽवस्थितः सर्वेषु समयेषु, किं तर्हि ? इत्याह'पढमः' इत्यादि, 'प्रथमाष्टमसमययोः' समुद्घातस्य प्रथमसमये-ऽष्टमसमये च 'योग औदारिकः' औदारिककाययोगो भवति । ____'सत्तमः' इत्यादि, 'सप्तम-पष्ठ-द्वितीयसमयेषु' समुद्धातप्रतिपन्नस्य सप्तमसमये षष्ट समये द्वितीयसमये च 'मिश्रः' औदारिकमिश्रकाययोगो भवति । चकारः समुच्चये, स चोत्तरत्र योज्यः । 'कम्मणो' इत्यादि, तत्र 'तृतीय-तुरिय-पञ्चमसमयेषु' समुद्घातं गतस्य जीवस्य तृतीयसमये चतुर्थ समये पश्चमसमये च 'कार्मणो योगः' कार्मणकाययोगो भवति, बहिरेवौदारिकाद् बहुतरव्यापारसद्भावेन कार्मणकाययोगमात्रचेष्टनात् । कार्मणकाययोगी च नियमतोऽनाहारको भवति । तेन तृतीय-चतुर्थ-पञ्चमसमयेषु समुद्घातगतो नियमतो-ऽनाहारको भवति। उक्तञ्चोमास्वातिपादैः
"औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः। मिश्रीदारिकयोक्ता सप्तम-षष्ठ-द्वितीयेषु ॥१॥ कार्मणशरोरयोगो चतुर्थके पञ्चमे तृतीये च । समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् ॥२॥” इति । एवं भाष्यकृभिरपि"न किर समुग्धायगओ मणवइजोगप्पओयणं कुणइ । ओरालियजोगं पुण जुजइ पढमहमे समए ॥१॥ उभयव्वावाराओ तम्मीसं बीय-छट्ठ-सत्तमए । ति-चउत्थ-पंचमे कम्मयं तु तम्मत्तचेठाओ ॥२॥” इति
'निरुम्भइ' इत्यादि, तत्र 'तो' त्ति 'ततः' समुद्घातनिवत्तितः परं 'जोगं' ति मनोवाकाययोगलक्षणं योगं निरुणद्धि । अयं भावः-समाप्तसमुद्घातः केवली भगवान् कारणवशाद् योगत्रयं प्रयुक्ते । कथम् ? इति चेत्, उच्यते -अनुत्तरसुरादिपृष्टः सत्यमसत्यामृषं वा मनोयोगं प्रयुङ्क्ते, आमन्त्रणादौ सत्यमसत्यामृषं वा वाग्योगं प्रयुक्ते, काययोगश्च फलकप्रत्यर्पणादौ । न्यगादि च भाष्यकारैः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org