SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ समुद्घाताबस्थायां योगनिरूपणम् ] सयोगिगुणस्थानाद्धाधिकारः [ ४६७ षष्ठक्षणे तिष्ठस्तु कपाटे स्थिति रसं च पूर्ववत् । नाशयति स्थितिरसघाताद्धा खल्वन्तमुहूर्तमिता ॥२४१।। इति पदसंस्कारः । 'छट्टखणे' इत्यादि, 'षष्ठक्षणे' समुद्घातकरणस्य षष्ठं समये 'कपाटे' प्रतरं संक्षिप्य कपाटे तिष्ठंस्तु स्थितिं रसं च पूर्ववत् नाशयति । प्रागेकसामयिकी स्थितिघाताद्धा रसघाताद्धा चाऽऽसीत्, अतः प्रभृति यो विशेषः, तं दर्शयति--'ठिइ०' इत्यादि, अद्धापदस्य प्रत्येकं सम्बन्धात् स्थितिघाताद्धा रसघाताद्धा च 'खलु' निश्चयेन 'अन्तर्मुहूर्तमिता' अन्तमुहूर्तत्रमाणा भवति, न तु सामयिकी । अयमस्य भावः-पञ्चमे समये सत्कर्मणि स्थापितस्थितेः सख्येयान् भागान् कृत्वा षष्ठे समये कपाटस्थ एक संख्येयभागं तत्रैव विमुच्य शेषान् संख्येयान् भागान् धातयितुमुपक्रमते, तेभ्यः प्रतिसमयं कतिपयं दलमुत्किरति, अन्तमुहूर्ते पूर्णे तु संख्यातभागाः निःशेषतो घात्यन्ते, तेन सप्तमादिसमयेष्वभिनवस्थितिं घातयितुन गृहणाति, किन्तु प्राग् गृहीतामेव दलिकोत्करणेन घातयति । तथा पञ्चमसमये मुक्ता-ऽनुभागस्याऽनन्तान् भागान् कृत्वा षष्ठे समये कपाटस्थ एकमनन्ततमभागं सत्कर्मण्येव निधाय शेषाननन्तान् भागान् घातयितुमुपक्रमते, अन्तमुहूर्तकालेन निश्शेषतो विनाशयति, प्राक्तनेषु पञ्चसु समयेषु तु स्थितिघाताद्धा रसघाताद्धा चैकसामयिकी समासीत् । उक्त चाऽऽवश्यकचूर्णी-“एषु दण्डकादिषु पंचसु समयेषु सामायिकं कण्डकमुत्कीर्णमितिकृत्वा समये समये स्थित्यनुभवघातो ज्ञेयः । अथ किमिदं कण्डकमिति प्रश्ने महे-कण्डकमिव कण्डकं, कः उपमार्थः ? यथा लोके तरोः खण्डभागः अंशः कण्डकमित्यभिधोयते, तथा कमतरोरपि खण्डं कण्डकमिति सिहं, अतः परं षष्ठसमयादारभ्य स्थितिकण्डकमनुभागकण्डकंवा अन्तमुहूर्तकमुत्किरति । कण्डकं यतः किरति-क्षिपति-विनाशयतोत्यर्थः।” इति । कषायप्राभृतचूर्णिकाराणामभिप्रायेण दण्डादीनि कुर्वतः समयचतुष्टये स्थितिघातकालोऽनुभागघातकालश्चैकसामयिकः, पञ्चमसमयात्प्रभृति त्वान्तौहूर्तिकः । तथा च तद्ग्रन्थः"एदेसु चदुसु समएसु अप्पसत्थकम्मंसाणमणुभागस्स अणुसमयओवट्टणा, एगसमइओ हिदिखंडयस्स घादो । एत्तो सेसिगाए ठिदीए संखेजे भागे हणइ । सेसस्स अणुभागस्सअणंते भागे हणइ। एत्तो पाए हिदिखंडयस्स अणुभागखंडयस्स च अंतीमुहुत्तिया उक्कीरणडा।” इति । तचं तु केवलिनो बहुश्रुता वा विदन्ति ॥२४१॥ इदानीं सप्तमसमये-ऽष्टमसमये चाऽवस्थाविशेष समुद्घातसमयाष्टके च योगं चिन्तयति सत्तमसमये दंडे ठाअइ अट्रमखणे सरीरत्थो। पढमट्ठमसमयेसु जोगो ओरालिओ होइ ॥२४२॥ सत्तम-छट्ठ-विइयसमयेसु मिस्सो य कम्मणो जोगो। तइय-तुरिय-पंचमसमयेसु निरुम्भेइ तो जोगं ॥२४३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy