SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ खवगसेढी [गाथा-२४०-२४१ जीवः समुद्घातस्य पश्चमसमयेऽन्तराणा प्रदेशान् संहृत्य प्रतरे तिष्ठति, षष्ठे समये प्रतरस्थः प्रदेशान् संहृत्य कपाटे वर्तते, सप्तमसमये कपाटं संकोच्य दण्डे तिष्ठति, अटमसमये तु दण्डं संहृत्य स्वशरीरस्थो भवति , यदुक्तं वाचकमुख्यः "दण्डं प्रथमे समये कपाटमथ चोत्तरे तथा समये । मन्थानमथ तृतीये लोकव्यापी चतुर्थे तु ॥१॥ संहरति पञ्चमे त्वन्तराणि मन्थानमथ पुनः पष्ठे । सप्तमके तु कपाटं संहरति ततोऽष्टमे दण्डम् ॥२॥” इति ॥२३९।। अथ समुद्घातस्य पञ्चमादिसमयेषु क्रियाविशेष प्रतिपिपादयिपुरादौ तावत् पश्चमसमयभाविनं क्रियाविशेष प्रतिपादयति पंचमसमये पयरे ठान्तो बहुसंखभागपमियठिइं। नासइ रसं तु रससंतस्स बहुअणंतभागमियं ॥२४॥ पञ्चमसमये प्रतरे तिष्ठन बहुसंख्यभागप्रमितस्थितिम् । नाशयति रसं तु रससत्त्वस्य बह्वनन्तभागभितम् ॥२४०।। इति पदसंरकारः । "पंचमः' इत्यादि, 'पञ्चमसमये' समुद्घातस्य पञ्चमसमये 'अतरे' जगत्पूरणं संहत्य प्रतरे तिष्ठन् केवलिभगवान् बहुसंख्यभागप्रमितस्थिति' स्थितिसत्ताया बहून् संख्येयभागान् 'नाशयति' विघातयति, 'रसम्' अनुभागं 'तु' तुः पुनरर्थे, रससचस्य बह्वनन्तभागमितं नाशयति, काकाक्षिगोलकन्यायेन 'नासई' इति पदस्या-त्राऽपि योजनात् । अयं भावः-चतुर्थसमये परित्यक्तस्य स्थितिसत्कर्मणः संख्येयभागान कृत्वा पञ्चमसमये प्रतरस्थ एक संख्यभागं सत्कमण्यवस्थाप्य शेषान् संख्येयान् भागान् विनाशयति, तथा प्राझुक्तस्या-ऽनुभागस्या-ऽनन्तान् भागान् कृत्वैकमनन्ततमभागं सत्कर्मण्यवस्थाप्य शेषान् बहननन्तभागान् विनाशयति, यदभिहितम् आवश्यकचूर्णी--"अतश्चतुर्थसमयघातितस्थितिसत्कर्मणः सकाशात् या असंख्ययभागप्रमाणाऽवशिष्टा स्थितिरवतिष्ठत इत्युक्त, सा बुद्धया संख्येया भागाः क्रियन्ते । पंचमसमये प्रतरस्थः संख्येयान् भागान् हन्ति, संख्ययभागोऽवतिष्ठते, चतुर्थसमयघातिताऽनुभवसकाशात् अनन्तोऽवशिष्टो-अनुभवो-ऽवतिष्ठते इत्युक्तं असावपि बुद्धचा अनन्ता भागाः क्रियन्ते, तस्य पंचमसमये प्रतरस्थोऽनन्तान् भागान् हन्ति, अनन्तभागोऽवतिष्ठते ।” इति ॥२४०॥ अधुना समुद्घाताद्धायाः षष्ठे समये कार्यविशेष प्रतिपादयति छट्टखणे ठान्तो उ कवाडम्मि ठिइं रसं य पुबब्व । नासइ ठिइरसघायद्धा खलु अंतोमुहुत्तमिआ ॥२४१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy