________________
जग पूरणादीनां संहरणम् ] सयोगिगुणस्थानाद्धाधिकारः
[४६५ अत्रा-ऽपि प्रशस्तप्रकृतीनामनुभागमप्रशस्तप्रकृत्यनुभागघातनाऽनुप्रवेशेन घातयतीति मन्यन्त आवश्यकचूर्णिकारादयः । तथा चात्र आवश्यकचूर्णि:-"अयमपि च अप्रशस्तप्रकृत्यनुभवघातना-ऽनुप्रवेशनेन प्रशस्तप्रकृत्यनुभवघातनं करोतीति ज्ञेयम् ।” इति । कषायप्राभृतचूर्णी लोके पूर्णे योगस्यैकवर्गणा भवति, तेन सर्वात्मप्रदेशेषु योगस्तुल्यो भवतीत्युक्तम् । तथा चात्र कषायप्राभृतचूणि:-"लोगे पूण्णे एका वग्गणा जोगस्स त्ति समजोगो त्ति णायव्वो।” इति । अयं भावः-पमुद्घातस्य चतुर्थसमये लोकप्रमाणनिखिलात्मप्रदेशेषु योगाऽविभागास्तुल्या भवन्ति, न त्वेकोत्तरवृद्धया वर्गणारूपेण तिष्ठन्ति, तेन स्पर्धकान्यपि न भवन्ति । इत्थं सर्वात्मप्रदेशेषु योगाऽविभागानां तुल्यत्वाद् एकैव वर्गणा भवति, ततो योगः सर्वत्र समानो भवति । यदा पञ्चमसमये लोकपूरणमुपसंहृत्य प्रतरं करोति, तदा पुनरेकोत्तरवृद्ध्या योगाऽविभागा वर्गणारूपेण प्रादुर्भवन्ति, योगस्पर्धकानि लभ्यन्त इत्यर्थः । इत्थं पुनरात्मप्रदेशेषु योगो विषमो भवति ॥२३८॥ अथ लोकपूरणा-ऽवस्थायां स्थितिसत्त्वं जगत्पूरणादीनाञ्च संहरणं व्याजिहीर्षुराह
तइयाईणं अंतोमुहुत्तत्ता ठिई उ आउत्तो। संखगुणा तत्तो संहरए जगपूरणाईणि॥२३९॥
तृतीयादोनामन्तर्मुहुर्तमात्रा स्थितिस्तु आयुष्टः ।
संख्यगुणा ततः संहरति जगत्पूरणादीनि ।।२३९।। इति पदसंस्कारः । 'तइयाईणं' इत्यादि, 'तृतीयादीनां' नाम-गोत्र-वेदनीयानां स्थितिरन्तमुहूर्तमात्रा भवतीति शेषः, तुः पुनरर्थे भिन्नक्रमश्च, 'आयुष्टः' आयुष्कस्थितितः पुनः संख्यगुणा भवति, अद्याप्याधुषा सह समाना न जातेत्यर्थः । उक्तं च कषायप्राभृतचूर्णी-“लोगे पुण्णे अंतोमुहुत्तं ठिदि ठवेति, संखेजगुणमाउआदो।" इति । तथैवा-ऽऽवश्यकचूर्णावपि-“एवं पूर्णलोकस्य कर्मत्रयसत्कर्म आयुषः सकाशात् संख्येयगुणं जातं अनुभवोsनन्तः ।” इति ।
अथ विस्तारितानात्मप्रदेशान् पञ्चमसमथात्प्रभृति प्रतिलोमं संकोचयतीत्येतदभिधित्सुराह'तत्तो' इत्यादि, 'ततः' समुद्घातस्य चतुर्थसमयात् परं 'जगत्पूरणादीनि' जगत्पूरण-प्रतरकपाट-दण्डरूपाणि 'संहरति' यथोक्तक्रमात् प्रतिलोममुपसंहरति । एतदुक्तं भवति-समुद्घातगतो
ॐ धवलाकारास्तु महावाचकाऽऽर्यनन्दीनामभिप्रायेणा-ऽऽयुष्कतः शेषकर्माणि संख्येयगुणानि भवन्ति समुद्धातचतुर्थसमये, प्रार्यमङ क्षरणामभिप्रायेण पुनरायुष्कतुल्यस्थितिकानि भवन्तीति बदन्ति । अक्षराणि त्वेवम्-"महावाचयाणमन्जमखुसमसारणमुवदेसेरण लोगे पूण्णे पाउसमं करेदि । महावाचयारणमजणंदोरणं उवदेसेण अंतोमुहुत्तं हवेदि संखेजगुरणमाउादो।" इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org