________________
४६४ ] खवगसेढी
[गाथा-२३८ अथ समुद्घातं प्रतिपन्नस्य चतुर्थसमये कार्यविशेष व्याजिही राहवित्थारेइ चउत्थसमये बहुअसंखभागमिआ। जगपूरणे पअसा ठिइरसघाओ उ पुबब्व ॥२३८॥ (उपगीतिः) विस्तारयति चतुर्थसमये बहुसंख्येयभागमितान् । जगत्पूरणे प्रदेशान् स्थितिरसघातस्तु पूर्ववद् ॥२३८॥ इति पदसंस्कारः ।
'वित्थारेई' इत्यादि, तत्र 'चतुर्थसमये' समुद्धातस्य चतुर्थसमये बह्वसंख्येयभागमितान् 'प्रदेशान्' जीवप्रदेशान् जगत्पूरणे विस्तारयति, तृतीयसमयोद्धरितावकाशान्तरेषु स्वात्मप्रदेशान् प्रसार्य निखिलं लोकं स्वात्मप्रदेशैः पूरयतीत्यर्थः, तदानीमेकैकजीवप्रदेश एकैका-ऽऽकाशप्रदेशमवगाह्य तिष्ठति । भावार्थः पुनरयम्-प्रतरं कुर्वता ये-ऽसंख्येयभागमात्रप्रदेशाः स्वशरीरे परित्यताः, तेषामसंख्येयभागान् कृत्वैका-ऽसंख्येयभागगतान् स्वशरीरावगाहनीया-ऽवकाशप्रमाणान् जीवप्रदेशान् तत्रैव शरीरे स्थाप्य शेषान् बह्वसंख्येयभागप्रमितान् जीप्रदेशान् निष्क्रम्य तृतीयसमयोद्धरितावकाशान्तराणि पूरयति । इत्थं समुद्घातकरणस्य चतुर्थसमये केवली भगवान् निखिललोकव्यापी भवाी। यदभिहितम् आवश्यकचूर्णी-"ततस्तृतीयसमयनिर्गतात्मप्रदेशसकाशात् यो-ऽसंख्येयभागोऽवतिष्टते इत्युत्तम् , असावपि वुडन्या पुनरप्यसंख्येया भागाः क्रियन्ते, ततश्चतुर्थसमये लोकपूरकाणामसंख्येयभागा निष्कामन्ति, अर्सख्येयभागोऽवतिष्ठते, ततस्तैरसंख्ययभागैनिष्क्रान्तरेते लोकनिष्कुटान् पूरयंति, तत्र ये निष्क्रान्तास्ते तृतीयसमयनिष्क्रान्तात्मप्रदेशसकाशादसंख्येयगुणहीनाः, यश्चाऽधुना-संख्ययभागोऽवतिष्ठते-ऽसौ स्वशरीरावगाह्यावकाशप्रमाण इति ।"
'ठिइरस०' इत्यादि, 'स्थितिरसघातस्तु' समुद्घातकरणस्य चतुर्थसमये स्थितिघातो रसघातश्च पूर्ववद् भवति, तुर्वाक्यभेदे । अयमत्राशयः-तृतीयसमये परित्यक्तका-ऽसंख्येयभागप्रमागस्थितेरसंख्येयभागान् कृत्वैकमसंख्येयभागं सत्कर्मणि प्रतिष्ठाप्य तदानीं शेषानसंख्येयभागान् घातयति, तथा तृतीपसमये सत्कर्मणि मुक्ता-ऽनुभागस्या-ऽनन्तभागान् कृत्वैकमनन्ततमभागं सत्कर्मणि विहाय चतुर्थसमये शेषाननन्तान् भागान् घातयति, यनिगदितम् आवश्यकचूर्णी-“अथ चतुर्थसमये लोकपूरकस्य स्थित्यनुभागघातने को विधिः ? इत्यभिलपामः-ततस्तृतोयसमयघातितसत्कर्मस्थितेः सकाशाद् योऽवशिष्टो-ऽसंख्ययभागो-ऽवतिष्ठते इत्युकम् , असावपि वुड्या पुनरसंख्येयभागाः क्रियन्ते, तस्य लोकपूरको-संख्येयान् भागान्हन्ति, असंख्येयभागो-ऽवतिष्ठते। ततोऽनुभवस्याऽपि तृतीयसमयघातितानुभवसकाशात् योऽवशिष्टोऽनन्तोऽनुभवोऽवतिष्ठते इत्युक्त असावपि बुद्धया पुनरनन्तभागाः क्रियन्ते, तस्य लोकपूरकोऽनन्तान् भागान् हन्ति, अनन्तभागोऽवतिष्ठते ।” इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org