________________
प्रतरावस्थायां स्थितिघातरसघातौ ] सयोगिगुणस्थानाद्धाधिकारः
[ ४६३ यभागद्रयमात्राऽवगाहनाया अपि लोकाऽसंख्येयभागमात्रत्वात् । ततश्च व्याख्याप्रज्ञप्तिवृत्ती श्रीमदभयदेवसूरिपादैः "असंखेजेसु भागेसु होजत्ति मधिकरणकाले बहोर्लोकस्य व्याप्तत्वेन स्तोकस्य चाऽव्याप्ततयोक्तत्वाल्लोकस्याऽसंख्येयेषु भागेषु स्नातको वर्तते।” इति यदु तम् , तेन सह विरोवः स्यात् । तत उर्ध्वमधश्च लोकान्तगामिनस्तथा पूर्वापरदिशोर्दक्षिणोत्तरयोर्वा लोकान्तप्रापस्या-ऽखण्डस्य कपाटस्य तृतीयसमये मन्थानीकरणमभ्युपगन्तव्यम्। एवंच सुसिध्यत्येव स्नातकस्य मथिकरणकाले लोकाहसंख्येयभागमागावगाहना, जीवप्रदेशानामनुश्रेणिगमनेन बहोर्लोकस्य पूरितत्वादवकाशान्तराणां चा-ऽपूरितत्वात् । किश्च प्रतरमेव केचिद् मन्थानं प्राहुरन्ये तु रुचकमिति प्राग् दर्शितम् । तदेवं शब्दभेदेऽपि नास्तीहाऽर्थभेदः । ननु स्यादेवम् , किन्तु मन्थानमिव मन्थानं करोतीति तत्र तत्र प्रतिपाद्यते, तर्हि तत्र क उपमार्थी घटते, न ह्यखण्डकपाटाद् मन्थाने क्रियमाणे मन्थाना-ऽऽकृतिः सम्पद्यते ? इति चेत्, उच्यते-मथ्यतेऽनेनेति मन्थानः, “संस्तुस्पृशि०” (उणादि०२७६) इति सूत्रेण मन्थिधातोरानप्रत्ययः, यथा मन्थानेन दधिधनावस्था प्रच्याव्यते, तथा समुद्वाततृतीयसमयसत्कावस्थाविशेषेणा-ऽघातित्रयस्य स्थिति-रसौ ह्रास्यते । तदेवं घटत उपमार्थ इत्यस्माकं मतिः । तत्वं तु केवलिनो बहुश्रुता वा जानन्ति ।
अथ प्रतरं कुर्वतः स्थितिघातं रसघातं चा-ऽतिदिति-'ठिइ०' इत्यादि, स्थितिरसयोर्घातस्तु पूर्ववज्ज्ञातव्य इति शेषः, तुर्वाक्यभेदे । इदमुक्त भवति-समुद्घातकरणस्य द्वितीयसमये या स्थितिर्विमुक्ता, तस्या असंख्येयभागान् कृत्वैकाऽसंख्येयभागं सत्कर्मणि विहाय बह्वसंख्येयभागान् विनाशयति प्रतरं निर्वर्तयन् , तथा सत्कर्मणि द्वितीयसमये परित्यक्ताऽनुभागस्याऽनन्तान् भागान् कृत्वकमनन्ततमभागं सत्कर्मणि विमुच्य शेषाननन्तान् भागान् विघातयति । न्यगादि चा-चश्यकचूर्णी-“अथ तृतीयसमये प्रतरपूरकस्य स्थित्यनुभवघातने को विधिरिति प्रश्नेऽभिसंवादोयते, ततो द्वितीयसमयघातितसत्कर्मस्थितेः सकाशात् योऽसंख्येयभागोऽवशिष्टो-ऽवतिष्ठत इत्युक्त, असावपि बुद्धया पुनरसंख्ययभागाः क्रियन्ते, तस्य प्रतरपूरकोऽसंख्येयान् भागान् हन्ति, असंख्येयभागो-ऽवतिष्ठते, ततो-5नुभवस्या-ऽपि द्वितीयसमयघातितानुभवसकाशात् योऽवशिष्टो-ऽनन्तो-ऽनुभवो-ऽवतिष्ठते इत्युक्त, असावपि बुद्धया पुनरनन्तभागाः क्रियते, तस्य प्रतरपूरको-ऽनन्तभागान् हन्ति, अनन्तभागो-ऽवतिष्ठते । इति । तथैव कषायप्राभृतचूर्णावपि"तदो तदियसमए मंथं करेदि, ठिदिअणुभागे तहेव णिज्जरयदि ।” इति ।
___ आवश्यकचूर्णिकारादीनामभिप्रायेण तदानीं प्रशस्तप्रकृत्यनुभागस्या-ऽप्यप्रशस्तप्रकृत्यनुभागवातना-ऽनुप्रवेशेन घातनं भवति, यदुक्तमावश्यकचूर्णी-"अयमपि चाडप्रशस्तप्रकृत्यनुभवघातनानुप्रवेशनेनैव प्रशस्तप्रकृत्यनुभागघातनं करोतीति ज्ञेयम्” इति ॥२३७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org