________________
आयोजिकाकरणादिनिरूपणम् ]
[ ४४९
कचूर्णी - "स्वोपात्तमनुष्यायुषोऽन्तःप्रक्षयवशाद् भुक्तस्याऽन्तर्मुहूर्तशेषे सिध्यत्पर्यायाभिमुखा अवश्यकरणं कुर्वन्तोति । कथमिदमवश्यकरणमिति प्रश्ने, प्रदश्यतेअन्वर्थत्वादवश्यकरणसंज्ञायाः भास्करवत्, अवश्यकरणीयत्वादवश्यकरणम् । कथमियमन्वर्थेति दश्यते - अर्थमनुगता या संज्ञा सा ऽन्वर्था, अर्थमङ्गीकृत्य प्रवर्तत इत्यर्थः । कथम् ? इह यथा भास्करसंज्ञा अन्वर्था, कथमन्वर्था ? भासं करोतीति भास्करः इति यो भासनार्थः, तमङ्गीकृत्य प्रवर्तते इत्यन्वर्था, तथा - ऽवश्यकरणमिति इयं संज्ञा अन्वर्था, कथमिति चेत्, ब्रूमहे अवश्यंक्रियते इत्यवश्यकरणं इति योऽवश्यकरणार्थोऽवश्यकर्तव्यता, तमङ्गीकृत्य प्रवर्तते, यस्मात्, तस्मात् सर्वकेवलिभिः सिद्ध्यद्भिरवश्यं क्रियमाणत्वादवश्यकरणमित्यन्वर्थसंज्ञासिद्धिः ।" इति ।
सयोगिगुणस्थानाद्वाधिकारः
'आवज्जि०' इत्यादि, तत्र 'वा' अथवा परे भणन्ति- 'आवर्जितकरणं' करोतीति । नन्वावर्जितकरणं कुतो व्यपदिश्यते ? इति चेत्, उच्यते - आवर्जितस्य - तथाभव्यत्वेन मोक्षगमनं प्रत्यभिमुखीकृतस्य करणं शुभयोगव्यापारणमित्यावर्जितकरणम् । यदवादि कषायप्राभृतचूर्णो - "अंतोमुहुत्ते आउगे सेसे तदो आवज्जिदकरणे कदे तदो केवलिसमुग्धादं करेदि । " इति । तथैवावश्यकवृत्तावपि - "केचिदावर्जितकरणमित्याहुः । अयं शब्दार्थः - आवर्जित:अभिमुखीकृतः । आवर्जितस्य तथाभव्यत्वेन मोक्षगमनं प्रति अभिमुखीकृतस्य करणं-क्रिया-शुभयोगव्यापारणम् आवर्जितकरणम् ।" इति ।
'आवजकरणम्' काकाक्षिगोलकन्यायेन वाशब्दोऽत्राऽऽपि सम्बध्यते, वा = अथवा विशेषावश्यक भाष्यकारादयो हरिभद्रसूरिपादादयश्च भणन्ति - केवली भगवानन्तर्मुहूर्त मात्र आयुषि शेष आवर्जीकरणं करोतीति । उक्तञ्च भाष्यकृद्भिः
" तत्थाज्य से साहियकम्मसमुग्धायणं समुग्धाओ । तं गन्तुमणो पुव्वं आवज्जीकरणमभेइ || १ ||" इति । एवं श्रीमद्हरिभद्रसूरिपादैरप्यावश्यकवृत्तौ - "इह समुद्घातं प्रारभमाणः प्रथममेवा - Ssaर्जीकरणमभ्येति ।" इति । नन्वावर्जीकरणं कुतो व्यवह्रियते ? इति चेत्, भण्यतेआवर्जनम् = आवर्ज:, आपूर्वकाद् वर्जिधातोर्भावे घञ्प्रत्ययः, आत्मानं प्रति मोक्षस्याऽभिमुखीकरम् - आत्मनो मोक्षं प्रत्युपयोग इत्यर्थः, मयाऽधुनेदं कर्तव्यमित्येवंरूपः, यद्वा आवर्ज्यते-अभिमुखीक्रियतेऽनेनेत्यावर्जः, उदयावलिकायां कर्मप्रक्षेपरूपो व्यापार इत्यर्थः, यदुक्तं भाष्यकृद्भिःआवज्जणमुवओगो वावारो वा तदत्थमाईए । अंत्तोमुहुत्तमेत्तं काउं, कुरुए समुग्धायं ॥ १ ॥” इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org