________________
सयोगिकेवलिनः कालः ]
सयोगिगुणस्थानाद्धाधिकारः
हस्सो भिन्नमुत्तं जेट्टो सूपुव्वकोडी से ।
कालो अवट्टिया गुणसेढी आयोजिकाअ परि ॥२३१॥
ह्रस्वो भिन्नमुहूर्त ज्येष्ठो देशो न पूर्वको टिस्तस्य ।
कालो - sवस्थिता गुणश्रेणिरायोजिकायाः परि || २३१|| इति पदसंस्कारः । 'हस्सो' इत्यादि, ‘ह्रस्वः' जघन्यो 'भिन्नमुहूर्तम्' अन्तर्मुहूर्तम् 'ज्येष्ठः' उत्कृष्टो 'देशोनपूर्वकोटिः' साधिकाऽष्टवर्ष न्यूनपूर्वकोटिवर्षप्रमाणो भवति । कः? इत्याह- 'से कालो' त्ति 'तस्य' लब्धसयोगी गुणस्थानस्य कालः । भावार्थ: पुनरयम् - यथा- पूर्वकरण गुणस्थानकवर्ती जघन्यत एकसमयं संयतत्वेन स्थित्वा पञ्चत्वं गच्छति, न तथा प्राप्तसयोगिगुणस्थानकः, किन्तु जघन्यतो ऽन्तमुहूर्तं योगित्वेन स्थित्वा - योगिगुणस्थानकं सम्प्राप्य निर्वाणमेति । तेन सयोगिगुणस्थानकस्य जघन्यकालोऽन्तर्मुहूर्तं भवति । यः पूर्वकोटियुको सप्तमासा ऽभ्यधिकवर्षाष्टके प्राप्तसंयमः क्षपकश्रेणिमारोहति, सोऽन्तमुहूर्त कालेन सयोगिगुणस्थानकं समासाद्योत्कृष्टतो देशोनपूर्वकोटिवर्षाणि तत्र तिष्ठति, ततः शैलेशीं प्रतिपद्य निःश्रेयसमश्नुते । एवं सयोगिगुणस्थानकस्योत्कृष्टकालः साधिकवर्षाष्टकन्यूनपूर्वकोटिवर्षप्रमाणो लभ्यते ।
[ ४४७
सम्प्रति सयोगिगुणस्थानके गुणश्रेणि प्रपञ्चयति- 'अवडिया' इत्यादि, 'अवस्थिता' प्रदेशाग्रमाश्रित्य कालं च प्रतीत्याऽवस्थिता गुणश्रेणिर्भवति । किं सर्वत्र सयोगिगुणस्थानके -ऽवस्थिता गुणश्रेणिर्भवति ? इति चेत्, न किं तर्हि ? इत्याह-- ' आयोजिकाअ परि' त्ति 'आयोजिकायाः परि' परिशब्देन वर्ज्यवर्जकभावसम्बन्धो द्योत्यते । तेन आयोजिकाशब्दात् "पर्यपाभ्यां वर्ज्ये” (सिद्धहेम०२-२-७१ ) इत्यनेन सूत्रेण पञ्चमी विभक्तिः, आयोजिकां वर्जयित्वेत्यर्थः, वक्ष्यमाणाऽऽयोजिकाकरणात् प्राक् सर्वत्र सयोगिगुणस्थानके गुणश्रेणिरवस्थिता भवतीति फलितार्थः । इदमत्र हृदयम् - सयोगिकेवलिगुणस्थानकप्रथमसमयतः प्रभृति क्षीणकषायगुणस्थानकगुणश्रेग्यपेक्षया संख्येयगुणहीनः सयोगिकेवलिगुणश्रेणिनिक्षेपो भवति । स चा ऽवस्थितः, पूर्वपूर्वसमये क्षीणे उपर्युपरि वर्धनात् । तदेवं कालतो ऽवस्थिता गुणश्रेणिः । तथा सयोगिप्रथमसमये क्षीणकपायगुणश्रेण्यां परिणमनाय गृहीतदलतो ऽसंख्येयगुणं दलं गृह्णाति, छद्मस्थपरिणामतः केवलिपरिणामानां विशुद्धतमत्वनेव क्षीणकषायगुणश्रेणितः सयोगिगुणस्थानकगुणश्रेणेः शास्त्रे - संख्येयगुणत्वप्रतिपादनात् । दलच गृहीत्वा गुणश्रेणिशिरो यावदसंख्येयगुणक्रमेण प्रक्षिपति । द्वितीयसमयेऽपि तावदेव दलं गृहीत्वा गुणश्रेणिशिरो यावदसंख्येयगुणक्रमेण दलं प्रक्षिपति, परिणामानामवस्थितत्वात् । एवं प्रतिसमयं
Jain Education International
देवदलं गृहीत्वा गुणश्रेणिशिरो यावदसंख्येयगुणक्रमेण निक्षिपति । एवं गुणश्रेण्यर्थं प्रतिसमयं दलिकमवस्थितं तावद् गृह्णाति, यात्रदायोजिकाकरणं नारभते । तेन दलिका ऽपेक्षया सयोगिगुणस्थानगुणश्रेणियोजिकाकरणतः प्रागवस्थिता भवति ॥२३१॥
नवयोजिकाकरणं कदा करोति ? इत्यत आह
For Private & Personal Use Only
www.jainelibrary.org