________________
४४६ ]
. खवगसेढी
[ गाथा-२३० तस्स दुविहस्सावि दव्वस्स जो उप्पायट्ठितिभंगेहिं पजायभावो सो दव्वपरिणामो भन्नति, तत्थ खेत्तगहणेण आगासथिकायस्स गहणं कयं, तस्स खेत्तपरिणामो परपच्चइओ पोग्गलत्थिकायादिणो दव्वे पडुच्च भवतीति तत्थ कालपरिणामो णाम समयावलियमुहुत्तादी अणेगभेदो भवति, भावपरिणामो णाम एगगुणकालादो अणेगभेदो दट्टव्वो त्ति । एतेसिं चउण्ह वि दव्व-खेत्त-काल-भावाणं जो परिणामो, तस्स सव्वपरिणामस्स विन्नत्तिकारणमणतं केवलणाणं भवतीति । तत्थ विन्नत्तिकरणं विन्नत्तिकारणं वा, जाणितव्वगसामत्थजुत्तं ति वा, विन्नत्तिहेउभूयं ति वा एगठा, जहा य केवलणाणं भवति, तहा सासतं अपउिवादो एगविहं च भवति । तत्थ एगविहं णाम आभिणिबोहियनाणादिभेदविउत्तं ति वुत्तं भवति ।” इति ।
एवं केवलदर्शनमपि प्रतिपादनीयम् ।
न च ज्ञानदर्शनयोरेकतरोपयोगेन सकललोकालोकप्रत्यक्षसंभवेऽन्यस्य वैयापत्तिरिति वाच्यम् , आगमग्रन्थेधूपयोगद्वयस्य ज्ञानदर्शनलक्षणस्य क्रमेण प्रतिपादितत्वात् । उक्तं च
केवलनाणुवउत्ता जाणंती सव्वभावगुणभावे ।
पासंति सव्वओ खलु केवलदिट्ठी हिऽणंताहिं ॥१॥” इति । अनन्तवीर्यस्योपलक्षणत्वाद् अनन्तदान-लाभ-भोगोपभोगलब्धय आविर्भवन्तीत्युपलक्ष्यते, दानान्तरायाणां संक्षीणत्वात् ।।
ईर्यापथिककर्मबन्धस्तु क्षीणकपायवद् भवति ।
अर्हद्भक्तिप्रमुखविंशतिपुण्यस्थानविशेषाऽऽराधनाद् येन प्राक् तीर्थकुन्नामकर्म समुपार्जितम् , तस्य निरुक्तनामकर्मण उदयो भवति, तदुदयाच भूमिमस्पृशन् कनककमले स्वपादौ निदधत् सुरासुरनरेन्द्रः स्तूयमानश्चतुस्त्रिंशदतिशयसमन्वितो-ऽष्टमहाप्रतिहार्यश्रीयुक्तः पृथ्वीतले धर्मतीर्थं प्रवर्तयन् सद्देशनाभिश्च तीर्थकन्नामकर्म वेदयन् विहरति । उक्त च गुणस्थानकक्रमारोहे
“स सर्वातिशययुक्तः, सर्वामरनरैर्नतः । चिरं विजयते सर्वोत्तमं तीर्थं प्रवर्तयन् ॥१॥ वेद्यते तीर्थकृत्कर्म, तेन सद्देशनाभिः ।
भूतले भव्यजीवानां प्रतिबोधादि कुर्वता ॥२॥” इति । सयोगिगुणस्थानकप्रथमसमये तीर्थकृत्कर्मण उत्कृष्टस्थित्युदयोदीरणे भवतः ॥२३०॥ अथ त्रयोदशगुणस्थानकस्य कालं गुणश्रेणिं च प्रदर्शयितुकाम आह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org