________________
केवलज्ञाननिरूपणम् ]
सयोगिगुणस्थानाद्धाधिकारः
[ ४४५
तदानीं च मूलकर्मा-पेक्षया चत्वार्यघातिकर्माण्युत्तरकर्मा-पेक्षया तु पञ्चनवतिः कर्माणि जरद्वस्त्रकल्पानि जायन्ते । प्राप्तकेवलज्ञानकेवलदर्शनो भगवान् त्रिकालसहितं सर्वलोकालोकं युगपत् पश्यति । यदवादि तत्त्वार्थ सूत्रवृत्तौ -
चित्रं चित्रपटनिभं त्रिकालसहितं ततः सलोकमिमम् । पश्यति युगपत्सर्वं सालोकं सर्वभावज्ञः ॥ १ ॥” इति तथैवावश्यकाऽनियुक्त्यामपि -
"संभिन्नं पासंती लोगमलोगं च सव्वओ सव्वं । तं नत्थि जं न पासइ, भूयं भव्वं भविस्सं च ॥ १ ॥” इति ।
स च भगवान् केवलज्ञानेन सर्वं जानीत इति सर्वज्ञ उच्यते, केवलदर्शनेन सर्वं पश्यतीति सर्वदर्शी भण्यते, यदुक्तं वाचकमुख्यैः श्रीप्रशमरतौ
" कृत्स्ने लोकालोके व्यतीतसाम्प्रतभविष्यतः कालान् । द्रव्य-गुण- पर्यायाणां ज्ञाता द्रष्टा च सर्वार्थैः ॥ १ ॥” इति ।
सयोगिगुणस्थानकप्रथमसमये महात्मनः केवलज्ञानोपयोगो भवति, द्वितीयसमये केवलदर्शनोपयोगः, तृतीयसमये पुनः केवलज्ञानोपयोगः, चतुर्थसमये केवलदर्शनोपयोगः, एवंक्रमेण ज्ञानदर्शनोपयोगौ परावर्तेते |
Jain Education International
अथ केवलज्ञानादीनां स्वरूपं किञ्चिदुव्यते - केवलम् = असहायं = मत्यादिज्ञानरहितम्, ज्ञानं = संवेदनम्, केवलं च तज्ज्ञानं चेति केवलज्ञानम्, तच्चानन्तम्, अपर्यवसानत्वादनुच्छेदित्वाच्च । या सर्व जीवाजीवादिद्रव्याणां प्रयोगवित्र लोभवजन्योत्पादव्ययत्रौव्यादिपर्यायाणां भावस्य परिच्छित्तेः कारणं केवलज्ञानं भवति, क्षेत्रादीनामपि द्रव्यत्वात् केवलज्ञानं सर्वद्रव्य-क्षेत्र - काल-भावपरिच्छेदकं भवति । इत्थं च ज्ञेवस्या - Sऽनन्त्यात् केवलज्ञानमप्यनन्तं सुनिश्चितं भवति । तच्च शाश्वतमप्रतिपाति च, तत्र शश्वद् भवं शाश्रतम्, सदोपयोगवदित्यर्थः, प्रतिपतनशीलं प्रतिपाति, न प्रतिपाति = अप्रतिपाति, सदा ऽवस्थायीत्यर्थः । उक्तं चागमे - "तं चेव केवलणाणं सव्वदव्वाणं परिणामस्स सव्वभावाणं च परिणामस्स विन्नत्तिकारणं भवति, एगगहणे तज्जातोयाणं सव्वेसिंति काऊण दव्वभावग्गहणेण सव्वखेत्तपरिणामस्स सव्वकालपरिणामस्स य दोन्ह वि विन्नत्तिकारणं भवति । जम्हा य सव्वदव्व- खेत्त-काल- भावाणं चउण्ह वि सव्वपरिणामाणं विन्नतिकारणं भवति । अतो तं केवलणाणं अनंतं दट्ठव्वं ति । तत्थ दव्वपरिणामो णाम- दव्वं दुविहं भवति । तं जहा जीवदव्वं अजीवदव्वं च,
For Private & Personal Use Only
www.jainelibrary.org