________________
४४४ ]
खवगसेढी
[ गाथा-२३० सम्प्रत्यष्टमा-ऽधिकारं प्रतिपिपादयिषुरादौ तावद् व्यवहारनयमतमाश्रित्य केवलज्ञानादिलाभं समर्थयति
सेकाले पावेइ सजोगिगुणं लहइ केवलं णाणं । तह केवलं दरिसणं णिरन्तरायं च वीरियमणंतं ॥२३०॥ (गीतिः) अनन्तरकाले प्राप्नोति सयोगिगुणं लभते केवलं ज्ञानम् । तथा केवलं दर्शनं निरन्तरायञ्च वीर्यमनन्तम ।।२३०॥ इति पदसंस्कारः ।
'सेकाले' इत्यादि, 'अनन्तरकाले' घातिकर्मक्षयादनन्तरसमये जीवः ‘सयोगिगुणं' पदैकदेशे पदसमुदायोपचारात् सयोगिगुणस्थानकं प्राप्नोति' आसादयति । तत्र मनःपर्ययज्ञानिभिरनुत्तरदेवादिभिर्वा मनसा पष्टो व्याकरणाय मनोवर्गणापुद्गलानादाय मनोयोगं युनक्ति केवली भगवान्, तेन भगवतो मनोयोगो घटते । देशनाऽऽमन्त्राणादौ वाग्योग्यपुद्गलानादाय वचनयोगं प्रयुनक्ति । तत्राऽपि च सत्यवाग्योगो-ऽसत्यामृषवाग्योगश्चेति द्वा एव वाग्योगी भगवतः, नेतरौ द्वौ भेदौ, वीतरागत्वात् सर्वज्ञत्वाच्च । आगमनादौ च काययोगः, तद्यथाभगवान् कार्यवशतः कुतश्चित् स्थानाद् विवक्षिते स्थाने समागम्छेत् , यदिवा क्वापि गन्छेत् , अथवा तिष्ठेत्, ऊर्ध्वस्थानेन वा-ऽवतिष्ठेत निपीदेवा, तथाविधश्रमापगमाय त्वग्वर्तनं वा कुर्यात्, अथवा विवक्षिते स्थाने तथाविधसाम्पातिकसत्त्वाकुलां भूमिमवलोक्य तत्परिहाराय जन्तुरक्षानिमित्तमुल्लवनं प्रलङ्घनं वा कुर्यात् । एवं भगवतः केवलिनः योगत्रयस्य सद्भावात् योगेन सह वर्तत इति सयोगी, यद्वा योगो वीर्यपरिस्पन्द इति सुप्रसिद्धम् , सह योगेन वर्तन्त इति सयोगा मनोवाक्कायाः, ते सन्त्यस्येति सयोगी, "अतोऽनेकस्वरात्” (सिद्धहेम०७-२-६) इत्यनेन सूत्रेण इन्प्रत्ययः । सयोगिनो गुणस्थानकं सयोगिगुणस्थान कम्, तत् क्षीणघातिकर्मा लभते । ननु सयोगिगुणस्थानकं लभमानः पुनः किमासादति ? इत्यत आह-'लहइ'इत्यादि, 'लभते' आसादयति केवलं ज्ञानं तथा केवलं दर्शनं निरन्तरायं च वीर्यमनन्तम् , तथाशब्द-चकारशब्दो समुच्चयाथौं, अनन्तपदं च अन्त्यदीपकन्यायेन प्रत्येकमभिसम्बयते, ततश्चायमर्थः-अनन्तकेवलज्ञानमनन्तकेवलदर्शनं निरन्तरायञ्चाऽनन्तवीर्यं प्राप्तसयोगिकेवलिगुणस्थानकोऽश्नुत इति । उक्त च तत्त्वार्थसूत्रवृत्तौ श्रीमद्भिः सिद्धसेनगणिपादैः
"तस्य हि तस्मिन् समये केवलमुत्पद्यते गततमस्कम् । ज्ञानं च दर्शनं चावरणद्यसङ्क्षयाच्छुद्धम् ॥१॥ वीर्य निरन्तरायं भवत्यनन्तं तथैव तस्य तदा । कल्पातीतस्य महात्मनोऽन्तरायक्षयः कात्ात् ॥२॥” इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org