________________
निश्चय व्यवहारात्मकं जिनमतम् ] अपगतकपायाखाधिकारः
[४४३ शायभ्युपगन्तव्यौ, यथा हि यस्मिन्नेव समये तमसो विनाशः, तस्मिन्नेव समये प्रदीपादिप्रकाशस्योत्पत्तिर्भवति । एवमत्राऽपि यस्मिन्नेव समय आवरणस्य क्षयः, तस्मिन्नेव समये केवलज्ञानस्योत्पत्तिः, तत्र हि समय आवरणस्य क्षीयमाणस्य क्षीणत्वात् केवलज्ञानस्योत्पद्यमानस्योत्पनत्वात् । __. तदेवं दर्शितौ निश्चयनय-व्यवहारनया आक्षेपपरिहाराभ्याम् । जिनमतं तूभयनयात्मकम् । तेन क्रियाकाल-निष्ठाकालयोर्भेदाभेदः । ततश्च निश्चयनयेन क्षीणकषायचरमसमये केवलज्ञानस्योत्पत्तिः, व्यवहारनयेन त्वनन्तरसमये, तन्मतेन च साऽनन्तरगाथायां प्रतिपादयिष्यत इत्यलं विस्तरेण ॥२२९।।
क्षीणकषायचरमसमयमाश्रित्य यन्त्रकम् (१) केवलज्ञानावरण-केवलदर्शनावरण-पञ्चाऽन्तरायाणां जघन्याऽनुभागोदयो जायते (२) सर्वोत्कृष्चतुर्दशपूर्वधरस्य मतिज्ञानावरण-श्रुतज्ञानावरण-चक्षुर्दर्शनावरणा-ऽचक्षुर्दर्शनावरणानां ज
घन्याऽनुभागोदयो भवति । (३) विपुलमतिमनःपर्यायज्ञानभृतो जीवस्य मनःपर्यायज्ञानावरणस्य जघन्यानुभागोदयो जायते। (४) गुणितकाशस्य शीघ्रक्षपणायोद्यतस्य मतिज्ञानावरण-श्रुतज्ञानावरण-मनःपर्यवज्ञानावरण-केवल'ज्ञानावरण-चक्षुर्दर्शनावरणा-ऽचक्षुर्दर्शनावरण-केवलदर्शनावरण-पश्चाऽन्तरायरूपाणां द्वादशप्रकृती
नामुत्कृष्टप्रदेशोदयो भवति । (५) गुणितकाशस्याऽवधिलब्धिरहितस्य शीघ्र क्षपकश्रेणिमारूढस्याऽवधिज्ञानावरणाऽवधिदर्शनावर
णयोरुत्कृष्टप्रदेशोदयो भवति । (६) त्रीण्यपि घातिकर्माणि क्षीयमाणानि सर्वथा क्षीणानि । (७) निश्चयनयाभिप्रायेणाऽऽवरणक्षयसमय एव केवलज्ञानमुत्पद्यते ।
समाप्तः सप्तमाधिकारः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org