________________
४४२ ]
खगढी
[ गाथा--२२९
भिकाङ्क्षति । अयम्भाव:वः - प्रतिसमयमपरा - ऽपराण्येव शिवकादीनि कार्याण्युत्पद्यन्ते दृश्यन्ते च, तानि च तथोत्पद्यमानानि व्यवहारनयो नाऽवबुध्यते, घटोत्पत्तिनिमित्तैवेयं सर्वाऽपि मृच्चक्रचीवरादिसामग्रीत्येवं केवलघटाभिलापयुक्तत्वात्, ततस्तन्निरपेक्ष एव स्थूलमतितया सर्वमपि कालं घटकालत्वेन मन्यते, ततश्च प्राक्तनक्रिया समयेष्वनुत्पन्नत्वाद् घटमदृष्ट्वैवं ब्रूते - क्रियाकाले घटात्मकं कार्यं न दृश्यत इति इदं तु नावबुध्यते, यदुत चरमक्रियासमय एव घटः प्रारभ्यते, प्राक्तनक्रियाकाले तु शिवकादीन्येवा -ऽऽरभ्यन्ते, अन्यारम्भे चाऽन्यद् न दृश्यत एवेति । ननु यदि प्रथमसमयादारभ्याऽपरा - ऽपराणि शिवकादीनि कार्याण्यारभ्यन्ते, तर्हि कोऽयश्वरमसमय नियमः, येन प्रथमसमये घटादीनि कार्याणि न समुत्पद्यन्त इत्युच्यत इति चेत्, न, न ह्यकारणं कार्यमुत्पद्यते, अतिप्रसङ्गात् । तेनाऽन्त्यसमय एव घटादिकार्यस्य कारणं विद्यते, अतस्तत्रैव कार्यमुत्पद्यते, अन्वयव्यतिरेकाभ्यां कार्यकारणभावस्य गम्यमानत्वात् । इत्थञ्च दीर्घक्रियाकालपरिसमाप्तिसमये घटादिकार्यं दृश्यत इत्युक्तम्, तद्युक्तमेव, तदानीमेव तस्य प्रारब्धत्वात् । तच्च कार्यं क्रियासमये क्रियमाणं कृतमेव समयस्य निरंशत्वात् । यच्च कृतम्, तत् सदेव । ततः सदेव क्रियते, नाऽसत् यच्च सत्, तदुपलभ्यत एव । इत्थं क्रियाकाल - निष्ठाकालयोरभेदः । ततश्च यस्मिन्नेव समय आवरणक्षयः, तस्मिन्नेव समये केवलज्ञानोत्पादः, क्रियाकाल-निष्ठाकालयोर्भेदे त्वन्यत्र काले क्रिया, अन्यत्र च कार्योत्पत्तिरिति स्यात् तच्च न युक्तम्, क्रियाविरहेऽपि कार्योत्पत्यभ्युपगमप्रसङ्गन किया प्रारम्भात्पूर्वमपि कार्योत्पत्तिप्रसङ्गात् ।
,
•
ननु व्यवहारनयेनाssवरणस्य क्षये केवलज्ञानोत्पत्तिरिष्यते न त्वावरणे क्षीयमाणे । तत्र विकल्प द्वयमवतरति - किमावरणक्षयकाले क्रिया समस्ति, नवा ? यदि नास्ति, तर्हि क्रियां विना-वरणक्षये कोऽन्यः हेतुः १ न कोऽपीत्यर्थः, अथाऽस्त्यावरणक्षयकाले तद्हेतुभूता क्रिया, तया च तत्क्षय विधीयते, तर्हि बलादायातं क्रियाकाल-निष्ठाकालयोरैक्यम् ।
किञ्च यदि क्रियाकालयावरणक्षयो नास्ति, तर्हि पश्चादप्यसौ न स्यात्, अक्रियत्वात् । यदि च द्वितीयसमये क्रियान्युपरत्यामक्रियस्य सत आवरणक्षयोऽभ्युपगम्यते, तर्हि क्रियाविन्त - प्रथमसमये क्रियाया वैयर्थ्यं स्यात्, तामन्तरेणाऽप्यात्ररणक्षयोपपत्तेः क्रियाविरहित
द्वितीयसमयवद् ।
Jain Education International
अन्यच्च श्रीविवाहप्रज्ञप्तौ " णिज्जरिज्जमाणे णिज्जिपणे" इत्युक्तम्, अतः क्षीयमाणं क्षीणमेवेति न क्रियाकाल-निष्ठाकालयोर्भेदः । एवमावरणक्षीयमाणतासमय आवरणस्य क्षीणत्वेन प्रतिबन्धकविरहात् केवलज्ञानोत्पत्तिः केन निवारयितुं शक्यते ? यदि चावरणक्षीयमाणतासमये प्रतिबन्धकाभावेऽपि केवलज्ञानं नोत्पद्यते, तदुत्तरकाले तु पश्चादुत्पद्यते, तर्ह्यकारणः स्यात् केवलोत्पादः, ततचा कारणत एव तद्विनाशः सम्पद्येत । तस्मात् केवलज्ञानस्य तदावरणस्य च प्रकाश-तमसोरिव युगपदेवोत्पाद- विना
"
For Private & Personal Use Only
www.jainelibrary.org