________________
खत्रगसेढी
[ गाथा--२२९
निश्चयनयाऽभिप्रायेण यस्मिन्नेव समय आवरणक्षयः, तस्मिन्नेव समये केवलज्ञानमुत्पद्यते, क्रियाकाल- निष्ठाकालयोरैक्येन क्षीयमाणस्य क्षीणत्वात् ।
४४० ]
व्यवहारनयाऽभिप्रायेण तु यस्मिन् समय आवरणक्षयः, तदनन्तरसमये केवलज्ञानस्योत्पत्तिः, क्रियाकाल-निष्ठाकालयोर्भेदेना-ऽऽवरणक्षयसमये श्रीयमाणत्वात् क्षीयमाणस्य चाऽक्षीणत्वात् । उक्तञ्च श्रीविशेषावश्यकभाष्ये—
“आवरणक्वयसमए निच्छनयस्स केवलुप्पत्ती ।
तत्तो ऽणंतरसमए ववहारो केवलं भणइ ॥ १ ॥ " इति ।
भावार्थ: पुनरयम् - श्रुताख्यप्रमाणविषयीभूतस्यानन्तधर्मात्मकस्य वस्तुनः- स्वाभिप्रेतैकां - - स्तदितरां - शौदासीन्यतो नीयते = ज्ञायते येना - ऽभिप्रायविशेषेण, स नयः, स च यद्यपि द्रव्यार्थिकः पर्यायार्थिकश्च निश्चयो व्यवहारथ, द्रव्यात्मको भावात्मकच, क्रियात्मको ज्ञानात्मकश्चेत्यादिविविधरूपः शास्त्रान्तरेषु दृश्यते, तथाप्यत्र व्यवहार-निश्चयौ विधिच्येते, तयोरेवा-त्राऽधिकृतत्वात् ।
तत्रादौ तावद् व्यवहारनयाभिप्रायो व्यक्तीक्रियते तथाहि - यदविद्यमानम्, तदुत्पद्यते, न तु विद्यमानम्, असत्कार्यवादी हि व्यवहारनयः । तत्राऽनुमानप्रमाणमाह-यद् विद्यमानम्, न तत् केनचित् क्रियते, यथा पूर्वनिष्पन्नो घटः । अथ कृतमपि क्रियते, तदा क्रियतां नित्यमिति क्रियान्यापारानुपरमप्रसङ्गः, किञ्चैवं सति नैकस्याऽपि कार्यस्याऽनन्तकालेनाऽपि परिसमाप्तिः स्यात्, अपिच यदि कृतमपि क्रियते, तर्हि घटादिकार्य उत्पाद्ये चक्रभ्रमणादिक्रियाया वैयर्थ्या-ssपत्तिः, कार्यस्य प्रस्तुतक्रियायाः प्रागेव सच्चात् । प्रत्यक्षविरोधश्च सत्कार्यवादे, यतः पूर्वं मृत्पिण्डाद्यवस्थायामसदेव घटादिकार्यं कुम्भकारादिव्यापारेणोत्पद्यमानं दृश्यते ।
ननु यस्मिन्नेव समये कार्यं प्रारभ्यते, तस्मिन्नेव समये निष्पद्यते, अतो निष्पन्नमेव तत् क्रियते, क्रियाकाल-निष्ठाकालयोरभेदात् । इत्थं च सदुत्पद्यत इति चेत्, न, उत्पद्यमानानां हि घटादीनां प्रदीर्घः क्रियाकाल: प्रत्यक्षप्रतीतः, यतो मृदानयन- तत्पिण्डविधान-चक्रारोपण-शिवकादिविधानादिचिरकालेनैव घटाद्युत्पत्तिर्दृश्यते, न तु घटाद्यारम्भकाल एव ।
ननु भवतु नाम दीर्घः क्रियाकाल:, घटादिकार्यं त्वारम्भसमयेऽप्युपलभ्यत इति चेत्, मैवम्, यतः क्रियारम्भकाले घटादिकार्यनिष्पत्तिर्न दृष्टा केनचित् नाऽपि शिवक-स्थास - कोश- कुशूलादिकाले, किन्तु दीर्घक्रिया कालपरिसमाप्तिसमये घटादिकार्यं दृश्यते, तस्मात् क्रियाकालपर्यन्त एव घटादिकार्यसत्त्वं युज्यते, न तु पूर्वम्, तत्रा- ऽनुपलभ्यमानत्वात् । तदेवं क्रियाकाले कार्यं नास्ति, अनुपलभ्यमानत्वात्, किन्तु तन्निष्टाकाल एव तत्रौवोपलब्धेः । ततो नाssवरणं श्रीयमाणं क्षीणम्, क्रियाकाले तस्य क्षीयमाणत्वात्, निष्टाकाल एव च क्षीणत्वात्, क्रियाकाल-निष्ठाकालयोश्चाऽत्यन्तं भेदात् । तयोरैक्ये तु क्रियाकालेऽपि कार्यस्य सच्चात् क्रियावैयर्थ्यप्रसङ्गः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org