________________
४३४ ]
खवगसेढी
[ गाथा--२२८ अर्थव्यञ्जनयोगानां संक्रान्तिरुदितो हि विचारः ।
तदभावात् तदध्यानं प्रोक्तमविचारमर्हद्भिः॥४॥” इति । अयं महात्मा शुक्लध्यानीत्येतदववा-ऽसंमोह-विवेक-व्युत्सर्गरूपलिङ्ग आयते । तत्रोपसर्गः परिषहश्च न बिभेति, नाऽपि चाल्यते ध्यानादित्यवधलिङ्गम् । अत्यन्तगहनेषु पदार्थेषु देवमायासु च न मुह्यतीत्यसंमोहलिङ्गम् । शरीरादात्मानं पृथक् पश्यतीति विवेकलिङ्गम् । देहोपधीनां सङ्ग त्यजतीति व्युत्सर्गलिङ्गम् । उक्तं च ध्यानशतके
"अवहा-संमोह-विवेग-विउसग्गा तस्स हाँति लिंगाइं । लिंगिजइ जेहिं मुणो सुक्कज्झाणोवगयचित्तो ॥१॥ चालिजइ बोभेइ य धीरो न परिसहोवसग्गेहिं । सुहमेसु न संमुज्झइ भावेसु न देवमायासु ॥२॥ देहविवित्तं पेच्छइ अप्पाणं तह य सव्वसंजोगे ।
देहोवहिवोसग्गं निस्संगो सव्वहा कुणइ ॥३॥ तथैव तत्त्वार्थवृत्तावपि श्रीसिद्धसेनगणिपादैः
"व्युत्सर्गविवेका(त्संमोहाव्ययलिङ्गमिष्यते शुक्लम् । न च सम्भवन्ति कात्न्येन तानि लिङ्गानि मोहवतः ॥१॥ व्युत्सर्गः सङ्गत्यागः देहोपधीनां विवेकः ।
प्रोत्यप्रोतिविरहितं ध्यायंस्तदुपेक्षपकः प्रसन्नं सः ॥२॥” इति शुक्लध्यानस्य ध्याता शुक्ललेश्याक एव भवति । अभ्यधायि च ध्यानशतके-“सुक्काए लेसाए दो ततियं परमसुकलेस्साए ।" इति । शेषं शक्लध्यानद्वयमा यथावसरं वक्ष्यते ।।२२७॥
ध्यानबलेन यथाख्यातसंयमबलेन च घातित्रयस्य चरमस्थितिखण्डं घातयित्वा क्षीणकषायगुणस्थानस्याऽवशिष्टाऽद्धामात्रं स्थितिसचं क्रियत इति प्रतिपादितं षड्विंशत्यधिकद्विशततमगाथया । अथ चरमस्थितिखण्डे घातिते यद्भवति, तदाऽऽविश्चिकी राह
चरिमे खंडे उकिण्णम्मि तिघाईण णत्थि ठिङ्घाओ समयहिअआलिसेसे हस्सठिइउदीरणा तिघाईणं ॥ २२८॥ (गीतिः) चरमे खण्ड उत्कीर्णे त्रिघातिनां नास्ति स्थितिघातः ।। समयाधि कालिकाशेषे ह्रस्वस्थित्युदीरणा त्रिवातिनाम् ।। २२८ ।। इति पदसंस्कारः।
'चरिमें इत्यादि, देहलोदीपकन्यायेन 'घाईणं' ति पदमत्रापि सम्बध्यते, 'त्रिघातिना' ज्ञानावरण-दर्शनावरणा-ऽन्तरायरूपाणां कर्मणां चरमे खण्डे' अन्तिमे स्थितिखण्डे 'उत्कीर्णे' घातिते घातिकर्मणां स्थितिघातो 'नास्ति' न भवति । नाम-गोत्र-वेदनीयरूपाणां त्रयाणामघातिकर्मणां तु स्थितिघातादयः पूर्ववत् प्रवर्तन्ते, प्रतिषेधाभावात् । इतः प्रभृति ज्ञानावरणादीनां दलं केवलमुदयोदीरणाभ्यामसंख्येयगुणक्रमेण क्षपयति । 'समयाधिकावलिकाशेषे' क्षीणकषायगुणस्थानकाले समया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org