SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ एकत्ववितर्काऽविचाराख्यं द्वितीयशुक्लध्यानम् ] अपगतकषायाद्धाधिकारः [ ४३३ रूपोऽर्थरूपो वा यस्य तत्तथा इदमपि पूर्वगतश्रुतानुसारेणैव भवति, न विद्यते विचारः=अर्थ-व्यञ्जनयोरेकतरस्मादितरत्र तथा मनःप्रभृतीनामन्यतमादन्यत्र सञ्चारो निर्वातगृहगतप्रदीपस्येव यस्य तदविचारम् | एकत्ववितर्कं च तदविचारं चेत्येकत्ववितर्का विचारं द्वितीयशुक्लध्यानमुच्यते । उक्तश्व "जं पुण सुनिप्पकंपं निवायसरणप्पदीवमिव चित्तं । उपाय- ठिइ-भंगाइयाणमेगंमि पजाए ॥ १ ॥ अवियारमत्थवंजणजोगंतरओ तयं बिइयं सुक्कं । पुव्वगयसुयालंबणमेगत्तवियकमवियारं ||२||” इति । इदमुक्त' भवति - एकस्य भाव एकत्वम्, एकत्वगतो वितर्क एकत्ववितर्कः । यत्रक एव योगस्त्रयाणामन्यतमस्तथा-ऽर्थो व्यञ्जनं चैकमेव पर्याया- ऽन्तरा ऽनर्पितमेकपर्यायचिन्तनम् - उत्पादव्ययधौव्यादिपर्यायाणामेकस्मिन् पर्याये निर्वात गृहप्रतिष्ठितप्रदीपवद् निष्प्रकम्पं पूर्वगतश्रुतानुसारि चित्तं निर्विचारमर्थव्यञ्जनयोगान्तरेषु तदेकत्ववितर्का विचारम् | अद्वितीयध्यान एकं द्रव्यं पर्यायं गुणं वा चिन्तयति, तेन एकत्वपदमुपादीयते । एकयोगेन निश्चलस्य चिन्तयतो ऽर्थाद् व्यञ्जने व्यञ्जनादर्थे योगादन्ययोगे संक्रमणं - विचारो न भवतीत्यविचारपदमुपादीयते श्रुतानुसारेण चिन्त्यते, तेन वितर्कपदोपादानम् । उक्त च गुणस्थानकक्रमारोहे "निजात्मद्रव्यमेकं वा पर्यायमथवा गुणम् । निश्चलं चिन्त्यते यत्र, तदेकत्वं विदुबु धाः ॥ १ ॥ यञ्जनार्थ योगेषु परावर्तविवर्जितम् । चिन्तनं तदविचारं स्मृतं सद्ध्यानकोविदैः ||२|| निजशुद्धात्मनिष्टं हि भावश्रुता ऽवलम्बनात् । चिन्तनं क्रियते यत्र सवितर्क तदुच्यते ॥ ३॥ तथा तत्त्वार्थटीकायामपि श्रीसिद्धसेनगणिभिः— Jain Education International "क्षीणकषायस्थानं, तत् प्राप्य ततो विशुद्धलेश्यः सन् । एकत्ववितर्काऽविचारं ध्यानं ततो ऽध्येति ॥ १ ॥ एकार्थाश्रयमिष्टं योगेन च केनचित् तदेकेन । ध्यानं समाप्यते यत् कालोऽल्पोऽन्तर्मुहूर्तश्च ||२॥ श्रुतमुच्यते वितर्कः, पूर्वाभिहितार्थनिश्चितमतेश्च । ध्यानं तदिष्यते येन तेन सवितर्कमिष्टं तत् ॥ ३ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy