________________
४३२ ]
खगढी
[ गाथा - २२७
अथ प्रकारान्तरेण व्युत्पाद्यते-पृथक्त्वम् अनेकत्वं तेन सहगतो वितर्कः पृथक्त्ववितर्कः पृथक्त्वमेव वा वित-वितर्कपुरोगं - पृथक्त्ववितर्कम्, पृथक्त्वञ्चात्र परमाणुजीवादावेकद्रव्य उत्पाद-व्ययधौव्यादिपर्यायाऽनेकनयार्पितत्वम् । पृथक्त्वेन पृथक्त्वे वा तस्य चिन्तनं वितर्कसहचरितं पृथक्त्ववितर्कम्, पृथक्त्ववितर्क च तत् सविचारं चेति पृथक्त्ववितर्कस विचारम् । इदमुक्तं भवति-त्रयाणां योगानामन्यतमे योगे वर्तमान उत्तमसंहननो जीवः प्राक् परमाण्यात्मादिकवाचकशब्दं गृह्णाति । ततस्तत्स्वरूपं चिन्तयति, ततस्तत्पर्यायं चिन्तयति, ततस्तदर्थं नानानयैः पूर्वगतभङ्गिश्रुतज्ञानबलेन पूर्ववित् तदितरस्तु मरुदेव्यादिवदन्यथा चिन्तयति, “पूर्वगतश्रुतानुसारेण पूर्व-विदः, मरुदेव्यादोनां त्वन्यथा ।” इति ध्यानशतकवृत्तौ प्रतिपादनात् । ग्रन्थान्तराभिप्रायेण तु मरुदेव्यादीनां निश्चयतो भावसूत्रयोगस्वीकाराद् न विरुध्यते तेषामपि यथोक्तश्रुतज्ञानबलेन चिन्तनम् । यदुक्तमुपदेशरहस्यवृत्तौ - "येषामपि मरुदेव्यादीनां व्यवहारतो नोपलभ्यन्त एते, तेषामपि निश्चयत एतत्सत्त्वमभ्युपगन्तव्यम्, तत्फलस्य संपन्नत्वात्, अत एवाद्ये पूर्वविद इत्यादिकमुपपद्यते, केवलज्ञानप्राप्तियोग्यतयाऽनुमीयमानस्याss शुक्लद्वयस्य तत्र भावतः पूर्ववित्त्वं विनाऽसंभवात् ।” इति । ततः शब्दार्थयोः स्वरूपविशेचिन्ताप्रतिबन्धः प्रणिधानम् । ततोऽन्तर्मुहूर्तकाले गते पर्यायान्तरं चिन्तयति, अथवा द्रव्यान्तरं गुणान्तरं वा तेनेदं ध्यानं सपृथक्त्वमुच्यते । कचित्पुनरर्थादर्थान्तरं गच्छति, शब्दाच्छदान्तरे संक्रामति । अन्यः पुनः पूर्वयोगतो ऽन्यतरस्मिन् योगे वा संक्रामति, तेनेदं ध्यानं सविचारं भण्यते । श्रुतज्ञानaa चिन्तयति तेन सवितर्कच्यते । उक्तं च गुणस्थानकक्रमारोहे—
"स्वशुद्धात्मानुभूतात्मभावश्रुतालम्बनात् । अन्तर्जल्पो वितर्कः स्यात् यस्मिंस्तत्सवितर्कजम् ||१|| अर्थादर्थान्तरे शब्दाच्छन्दान्तरे च संक्रमः । योगायोगान्तरे यत्र सविचारं तदुच्यते ॥२॥
द्रव्याद् द्रव्यान्तरं याति गुणाद्याति गुणान्तरम् । पर्यायादन्य पर्यायं सपृथक्त्वं भवत्यतः ||३||” इति । संक्षेपत एकस्मिन् परमाण्वादौ द्रव्य उत्पाद -स्थिति-भङ्ग-मूर्ताऽमूर्त-नित्याऽनित्यादिपर्यायाणां द्रव्यास्तिकादिनानानयैश्विन्तनपरं प्रथम शुक्लध्यानम् ।
न च अर्थादर्थाऽन्तरं गच्छतो जन्तोर्थ्यानविनाशो भवेदिति वाच्यम्, चित्तस्याऽन्यत्र गमनाभावेन ध्याननाशाऽभावात् ।
अथ द्वितीयं शुक्लध्यानमेकत्ववितर्काऽविचारं निरूप्यतेएकत्वेन=अभेदेन=उत्पादादिपर्यायाणामन्यतमैकपर्यायालम्बनतयेत्यर्थो वितर्कः - व्यञ्जन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org