________________
पृथक्त्ववितर्कसविचाराख्यं प्रथमशुक्लध्यानम् ] अपगतकषायाद्धाधिकारः
[ ४३१
शुक्लध्यानस्वरात् । क्षीणकषायगुणस्थानके तु सर्वेषां मतेनाद्यशुक्लध्यानद्वयमपि भवति । अतः शुक्लध्यानद्वयं सप्रभेदं प्ररूप्यते
,
शुक्लध्यानम् — शुक्लध्यानं चतुर्विधम् पृथक्त्ववितर्कसविचारादिभेदात् । तत्राद्यं पृथक्त्ववितर्कसविचारम्, द्वितीयमेकत्ववितर्का विचारम्, तृतीयं सूक्ष्मक्रियमप्रतिपाति चतुर्थं च व्युपरतक्रियमनिवतीति ।
9
अथ प्रथमं शुक्लध्यानं पृथक्त्ववितर्कसविचारं विविच्यते-- पृथक्त्वं भेदः, वितर्क्यते=आलोच्यते पदार्थो येन स वितर्कः करणे घञ्प्रत्ययः, मतिज्ञानविकल्प इत्यर्थः, तदनुगतं श्रुतमपि वितर्को व्यपदिश्यते, तदभेदात् । अथ व्युत्पच्यन्तरं दर्श्यते--विगतं तर्क-वितर्क संशयविपर्यया ऽपेतं श्रुतज्ञानमित्यर्थः । विचरणं विचारः, अर्थव्यञ्जनयोगेषु संक्रान्तिरित्यर्थः, तत्राऽर्थः परमाण्वात्मादिः, व्यञ्जनम् - अर्थस्य वाचको शब्दः, योग: = मनोवाक्काययोगस्वरूपः, तेषु संक्रान्तिविचार उच्यत इति यावत् । अर्थाद् व्यञ्जने संक्रामति, व्यञ्जनादर्थे, मनोयोगात् काययोगे, काययोगाद् वाग्योगे, वाग्योगात् काययोग इत्यादौ संक्रामति । ततश्च पृथक्त्वेन = एकद्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन पृथुत्वेन वा विस्तीर्णभावेनेत्यन्ये वितर्कः = श्रुतं यस्मिन् ध्याने तत्पृथक्त्ववितर्कम्, यद्वा पृथक्त्वेन = एकद्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन पृथुत्वेन वा विर्तको विकल्पः पूर्वगतश्रुतालम्बनो नानानयानुसरणलक्षणो यस्मिन् ध्याने, तत्पृथक्त्वविर्तकम् । विचारेण =अर्थादिषु संक्रान्त्या सह वर्तते, तत् सविचारम्, अर्थाद् व्यञ्जनं संक्रामति व्यञ्जनादर्थमित्यादि, तेनेदं सविचारमुच्यत इत्यर्थः, पृथक्त्ववितर्क च तत् सविचारं चेति पृथक्त्ववितर्कसविचारं प्रथमशुक्लध्यानमित्यर्थः । यदुक्तं ध्यानशतके
“उपाय ठितिभंगाइ पज्जयाणं जमेगदव्वंमि । नाणानयाणुसरणं पुव्वगयसुयाणुसारेणं ॥ १ ॥ सवियारमत्थ- वंजण- जोगंतरओ तयं पढमसुकं । होति पुहुत्तवियक सवियारमरागभावस्स || २ ||" इति ।
तथैव तद्वृत्तावप्युक्तं कलिकालत मोदिवाकरैः श्रीमडरिभद्रसूरिपादैः- “विचारः-अर्थव्यञ्जनयोगसंक्रम इति, आह च-अर्थ-व्यञ्जन-योगान्तरतः - अर्थ:-द्रव्यं, व्यञ्जनं= अर्थाद्वयञ्जनं शब्दः, योगः- मनःप्रभृति, एतदन्तरतः = एतावद्भेदेन सविचारम्, संक्रामतीति विभाषा, तकम् - एतद् प्रथमशुक्लं आद्यशुक्लं भवति । किं नामेत्यत आह-पृथक्त्ववितर्क सविचार, पृथक्त्वेन भेदेन विस्तीर्णभावेनाऽन्ये वितर्कः श्रुतं यस्मिन् तत्तथा ।" इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org