________________
४२८ ]
खवगसेढी
[गाथा--२२७ आसनानि चाऽत्राधारलक्षणानि, धर्माऽस्तिकायादीनां लोकाकाशादीनि स्वस्वरूपाणि वा । तथा विधानानि-धर्मास्तिकायादीनां भेदाः । प्रमाणानि च धर्मास्तिकायादीनामेवात्मीयानि, तथा धर्मास्तिकायादीनामुत्पादस्थितिव्ययादिपर्यायाः । उत्पादादिपर्यायेषु चेयं युक्तिश्शास्त्रवासमुचये प्रतिपादिता श्रीहरिभद्रसूरिपादैः
“घट-मौली-सुवर्णार्थी नाशोत्पत्तिस्थितिष्वयम् । शोक-प्रमोद-माध्यस्थं जनो याति सहेतुकम् ॥१॥ पयोव्रतो न दध्यत्ति न पयो-ऽत्ति दधिव्रतः।
अगोरसवतो नोभे, तस्मात्तत्त्वं त्रयात्मकम् ॥२॥” इति । इह धर्मास्तिकायो विवक्षितसमयसम्बन्धरूपा-ऽपेक्षयोत्पद्यते, तदनन्तराऽतीतसम्बन्धरूपाऽपेक्षया तु नश्यति, धर्मास्तिकायत्वेन तु नित्य इति ।
पञ्चास्तिकायमयो लोकः, स च कालतो-ऽनाधनिधनः । क्षेत्रतश्च लोकस्त्रिविधः, अधोलोकादिभेदैः । तत्राऽप्यष्टानां क्षितीनां घर्माद्यानां पृथ्वीनामेकविंशतेघनोदधिधनवाततनुवातात्मकानां धर्मादिसप्तपृथिवीवलयानां जम्बूदीपप्रभृतिस्वयम्भूरमणद्वीपपर्यवसानानामसंख्येयद्वीपानां लवणप्रभृतिस्वयंभूरमणपर्यवसानानामसंख्येयानां सागराणां सीमन्तकप्रभृत्यप्रतिष्ठानावसानानां चतुरशीतिलक्षाणां (८४,००,०००) निरयाणामसंख्येयानां ज्योतिष्कादिसम्बन्धिविमानानां द्वासप्ततिलक्षोत्तरसप्तकोटीनाम् (७,७२,००,०००) असुरादिदशनिकायसम्बन्धिनां भवनवास्यालयरूपभवनानामसंख्येयानां व्यन्तरनगराणां स्थानानि, व्योमादिप्रतिष्ठानं च लोकस्थितिविधानमित्यादि चिन्तयतो जीवस्य चतुर्थं धर्मध्यानं भवति । किञ्च साकाराद्यपयोगलक्षणो जीवो नित्य औदारिकादिशरीरेभ्यः पृथग्भूतो-ऽमूर्तः स्वज्ञानावरणादिकर्मणां कपिभोक्ता चाऽस्ति । तस्य जीवस्य स्वकर्मजनितो जन्मादिजलो व्यसनशतवापदः कषायपाताठो मोहनीयकर्मावर्तो महाभयानको ज्ञानावरणकर्मोदयजनिताऽज्ञानवायुप्रेरितसंयोगवियोगवीचिसन्तानोऽनाद्यपर्यवसितोऽशमः संसारसागरो-ऽस्तीत्यादि चतुर्थधर्मध्यानोपगतो ध्यायति । किंबहुना भाषितेन , निश्शेष जीवा-ऽजीव-पुण्य-पापा-ऽऽश्रव-संवर-निर्जरा-बन्ध-मोक्षाख्य-नवपदार्थविस्तरोपेतं द्रव्यास्तिकायादिसर्वनयसमन्वितं जिनेन्द्रभाषितं सिद्धान्तं ध्यायतो जीवस्य चतुर्थं धर्मध्यानं भवति । यदुक्तं ध्यानशतके
"पंचत्थिकायमइयं लोगमणाइणिहणं जिणक्खायं । णामाइभेयविहियं तिविहमहोलोयभेयाइं ॥१॥ खिइ-वलय-दोव-सागर-निरय-विमाण-भवणाइसंठाणं । वोमाइपइहाणं निययं लोगटिइविहाणं ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org