________________
विपाकविचाख्यं तृतीयं धर्मध्यानम् ] अपगतकषायाद्धाधिकारः
[ ४२७
ततश्चैवं रागादिक्रियासु वर्तमानानामपायान् ध्यायेत्, किंविशिष्टः सन्नि त्याह-'वर्ज्यपरिवर्जी' तत्र वर्जनीयं वर्ज्यम् - अकृत्यं परिगृह्यते, तत्परिवर्जी- अप्रमत्त इति गाथार्थः ।” इति ।
अथ विपाकविचयाख्यं तृतीयं धर्मध्यानमुच्यते-वि-विविधो विशिष्टो वा पाको विपाकः - अनुभाव इत्यर्थः, नरकादिगतिषु कर्मणां विपाकस्य विचयः -पर्यालोचनमिति विपाकविचयः । ज्ञानावरणादिकमष्टप्रकारकं कर्म प्रकृतिस्थित्यनुभागप्रदेश भेदभिन्नमिष्टानिष्टविपाकपरिणामं जघन्यमध्यमोत्कृष्टस्थितिकं विविधविपाकम् । तयथा- ज्ञानावरणाद् दुर्मेधस्त्वम्, दर्शनावरणाच्चक्षुरादिवैकल्यं निद्रायुद्भवथ, असातावेदनीयाद् दुःखं सातवेदनीयात्सुखम्, मोहनीयाद् विपरीतग्राहिता चारित्रनिवृत्तिश्च, आयुषोऽनेकभवप्रादुर्भावः नाम्नोऽशुभप्रशस्तदेहादिनिवृत्तिः, गोत्रा - दुच्च नीच कुलोत्पत्तिः, अन्तरायादलाभ इत्यादिकर्मविपाकं चिन्तयतो विपाकविचयाख्यं तृतीयं धर्मध्यानं भवति । उक्तं च ध्यानशतके
"पयइ-ठिइ-पएसा ऽणुभावभिन्नं सुहासुहविहत्तं । जोगाणुभावजणियं कम्मविवागं विचिंतेजा ॥१॥
अथ संस्थानविचयनामधेयं चतुर्थं धर्मध्यानमुच्यते- संस्थानम्-आकारविशेषो लोकस्य द्रव्याणां च । संस्थानस्य विचयो - अनुस्मरणमिति संस्थानविचयः । न केवलं लोकस्य द्रव्याणां च संस्थानं चिन्तयेच्चतुर्थधर्मध्यानोपगतः, अपि तु षड्द्रव्याणां लक्षणाऽऽसन-विधान-प्रमाणानि तथोत्पाव्यादिपर्यायानपि चिन्तयेत् । उक्तं च
" जिणदेसियाइ लक्खण-संठाणा-SSसण-विहाण-माणाई । उप्पायइिभंगाइ पज्जवा जे य दव्वाणं ॥ १ ॥” इति ।
इह लक्षणं धर्मास्तिकायादीनां गत्यादि । तथा संस्थानं मुख्यवृच्या पुद्गलरचनाकाररूपं परिमण्डलाद्यजीवानाम् उक्तं च "परिमंडले य वट्टे तंसे चउरंस आयते चेव ।” इति । जीवशरीराणां च समचतुरस्रादि, उक्तञ्च
Jain Educatión International
"समचउरंसे नग्गोहमंडले साइ वामणे खुज्जे ।
हुडे वि संठाणे जोवाणं छ मुणेयव्वा ॥ १ ॥” इति ।
तथा धर्माधमर्योरपि लोकक्षेत्रापेक्षया संस्थानं भावनीयम् । लोकसंस्थानं चेत्थं भावनी - यम् - अधोलोको वेत्रासनसंस्थानः, तिर्यग्लोकः पुनर्झल्लरीसंस्थानः, ऊर्ध्वलोकस्तु मृदङ्गसंस्थानः । यदुक्तं जीवसमासे
"हेट्ठा मज्झे उवरिं वेत्तासण-झलरी-मुइंगनिभो । मज्झिमवित्थाराहिय चोदसगुणमायओ लोओ ॥१॥"
For Private & Personal Use Only
www.jainelibrary.org