________________
४१८ ]
खवगसेढी
[ गाथा--२२३ उवट्ठियस्स नपुंसक-इत्थिवेयसंतक्खए पुरिसवेयबंधवोच्छेए य जुगवं कए तस्स एक्कारससंतं ।” इति । ___'अवगय०' इत्यादि, स्त्रीवेदनपुंसकवेदक्षयानन्तरम् 'अपगतवेदः' अपगतो व्यवच्छिन्नो वेदो चेदोदयो यस्य, सजीवोऽपगतवेदः, व्यवच्छिन्नवेदोदयो जीव इत्यर्थः, अन्तमुहूर्तकालेन ‘सप्त' पुरुषवेद-हास्यषटकलक्षणानि सप्तसङ्ख्यानि कर्माणि युगपत् सर्वात्मना क्षपयति, अन्तर्मुहूर्तात् प्रागेव नपुंसकवेदक्षयचरमसमये पुरुषवेदवन्धोच्छेदेन समयोनद्वयावलिकाबद्धपुरुषवेदस्यावशिष्टत्वाभावात् । उक्त च कषायप्राभृतचूर्णी-"तदो अवगयवेदो सत्त कम्मंसे खवेदि । सत्तण्हं कम्माणं तुल्ला खवणडा।" इति । एवं सप्ततिकावृत्त्यादावपि । ॥२२२॥
भिन्नभिन्नवेदोदयेन प्रतिपन्नानां क्रियाभेददर्शनात् स्त्रीवेदनपुंसकवेदोदयारूढानां जीवानां पुरुषवेदस्य जघन्यस्थितिबन्धो न भवतीत्याविश्चिकीर्षुराह
इत्थीसंढाणं पुरिसस्स जहण्णो न होइ ठिइबंधो। सेसं तु पुरिसवेअव्व भासियं वेदणाणत्तं ॥२२३॥ स्त्रीषण्ढयोः पुरुषस्य जघन्यो न भवति स्थितिबन्धः।
शेषं तु पुरुषवेदवद् भाषितं वेदनानात्वम् ।। २२३ ।। इति पदसंस्कारः । 'इत्थी' इत्यादि, 'स्त्रीपण्ढयोः' स्त्रीवेदोदयेन प्रतिपन्नस्य नपुंसकवेदोदयाऽऽरूहस्य चेत्यर्थः 'पुरुषस्य' पुरुषवेदस्य जघन्यस्थितिवन्धो-ऽष्टवर्षप्रमाणो न भवति । कथमेतदवसीयते ? इति चेत् , उच्यते-पुरुषवेदस्य जघन्यस्थितिवन्धः पुरुषवेदोदयारूढस्य प्रथमस्थितिचरमसमये भवति स्म, स्त्रीनपुंसकवेदोदयेन प्रतिपन्नानां क्षपकाणां वेदस्य प्रथमस्थितिः पुरुषवेदोदयारूढवेदप्रथमस्थितितः संख्येयभागप्रमाणया हास्यपटकक्षपणाद्धया हीना भवति, सा च प्राग् दर्शिता द्वाचत्वारिंशत्तमगाथयाऽनन्तरोक्तगाथद्वयेन च । पुरुषवेदस्य चरमस्थितिबन्धस्तु वेदप्रथमस्थितिचरमसमये भवति । तेन स्त्रीनपुंसकोदयप्रतिपन्नानां पुरुषवेदस्य चरमबन्धः पुरुषवेदोदयारूढतोऽर्वाग् भवति, अर्वाक च विशुद्धेरल्पत्वात् पुरुषवेदोदयारूढवज्जघन्यस्थितिबन्धो न भवति । उपलक्षणमेतद् , तेन स्त्रीवेदनपुंसकवेदोदया-ऽऽ-रूढानां पुरुषवेदस्य जघन्या नुभागबन्धोऽपि न भवति । तथा प्रागुक्ताः पुरुषवेदस्य जघन्यस्थित्युदीरणा-जघन्याऽनुभागोदीरणोत्कृष्टप्रदेशोदीरणाजघन्यानुभागोदयोत्कृष्टप्रदेशोदया न भवन्ति, पुरुषवेदोदयाभावात् , परायेदस्य च जघन्यस्थितिसत्ता-जघन्यानुभागसत्ता-जघन्यप्रदेशसत्ता - जघन्यस्थितिसंक्रम-जघन्या-ऽनुभागसंक्रम-जघन्यप्रदेशसंक्रमा न भवन्ति, पुरुषवेदोदयचरमसमयबन्धमाश्रित्य निरुक्तानां लाभात् ।
'सेसं' इत्यादि, उपर्युक्तादन्यच्छेषम्, तच्च पुरुषवेदवदवसेयम् , विशेषाऽभावात् । अथ निगमयति-"भासियं' इत्यादि, 'भाषितं' कथितं 'वेदनानात्वं वेदमाश्रित्य क्रियाभेदः, भिन्नभिन्नवेदोदयेन समारूढानांक्षपकाणां क्रियाभेदः प्रतिपादित इत्यर्थः । पश्यन्तु पाठका यन्त्रकम्-३० ॥२२३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org