________________
स्त्रीवेदोदयेन क्षपकश्रेणेरारोहणम् ] किट्टिवेदनाद्वाधिकारः
[ ४१५ खण्डं संक्रमयतो जीवस्य स्त्रीवेदस्य जघन्यस्थितिसङ्क्रमो भवति । इयं च तेषां युक्तिः-स्त्रीवेदोदयारूढो यस्मिन् स्थाने स्त्रीवेदं सर्वथा संक्रमयति, तस्मिन्नेव स्थाने पुरुषवेदोदयारूढो नपुंसकवेदोदयारूढचाऽपि । तदेवं वेदत्रयारूढानामेकस्मिन् स्थाने स्त्रीवेदस्य सर्वथा संक्रमणाइन्यतमवेदेनारूढानां क्षपकाणां स्त्रीवेदस्य जघन्यस्थितिसंक्रमो भवति, स्थित्युदयोदीरणयोः सत्योरपि ताभ्यां स्थितिघाताऽभावात् । उक्त चकर्मप्रकृतिचूर्णिटिप्पनके श्रीमन्मुनिचन्द्रसूरिपादैः"स्त्रीवेदस्य तु वेदत्रयेणारूढस्य जघन्यस्थितिसंक्रमो लभ्यते । सर्वत्रापि स्वस्थाने एव तस्य क्षयादिति । एवमनुभागसंक्रमोऽपि द्रष्टव्यः।। ___ तदानीं यथा पुरुषवेदोदयारूढस्य गुणितकाशस्य स्त्रीवेदस्योत्कृष्टप्रदेशसंक्रमो भवति, न तथा स्त्रीवेदोदयारूढस्य स्त्रीवेदस्योत्कृष्टप्रदेशसंक्रमः, उदयोदीरणाभ्यां कतिपयानां दलानां क्षपितत्वात् ।
स्त्रीवेदप्रथमस्थितिचरमसमये स्त्रीवेदस्य जघन्या-ऽनुभागोदयो गुणितकाशजन्तोवोत्कृष्टप्रदेशोदयो जायते । तदानीमेव स्त्रीवेदस्य जघन्यस्थितिसचं जघन्याऽनुभागसचं च भवतः । यदुक्तं कषायप्राभृतचूर्णी स्थितिविभक्त्यधिकारेऽनुभागविभक्त्यधिकारे च"इत्थिवेदस्स जहण्णहिदिविहत्ती कस्स ? चरिमसमयइथिवेदोदयखवयस्स । xxxxइत्थिवेदस्स जहण्णयमणुभागसंतकम्मं कस्स ? खवयस्स चरिमसमयइत्थिवेदयस्स ।” इति । ___निश्चयनयमाश्रित्य तदानीमेव व्यवच्छिद्यमानः पुरुषवेदस्य बन्धो व्यवच्छिन्नः, स्त्रीवेदस्य चोदयसच्चे व्यवच्छिद्यमाने व्यवच्छिन्ने । उक्तं च सप्ततिकाचूर्णी-“एमेव इत्थिवएण वि उवट्ठियस्स, नवरि नपुंसगवेओ पढमं खिजइत्ति । तओ अंतोमुहुत्तेण इत्थिवेयस्स उदयसंतकवओ पुरिसवेयबंधवोच्छेए य जुगवं भवइ ।” इति ।।
_ 'अवेआ' ति 'अवेदा' न विद्यते वेदो-वेदोदयो यस्याः, साऽवेदा, अपगतवेदामानुषीत्यर्थः, स्त्रीवेदं परिक्षप्याऽन्तर्मुहुर्तकालेन 'सत्त' इत्यादि, ‘सप्त' हास्यपटकपुरुषवेदरूपाणि सप्तकर्माणि युगपत् सर्वात्मना क्षपयति, नाऽवशिष्यते समयोनद्वयावलिकाबद्धः पुरुषवेदः, अन्तमुहुर्तात् प्रागेव स्त्रीवेदक्षयचरमसमये पुरुषवेदबन्धोच्छेदात् । पुरुषवेदोदयारूढस्तु वेदोदयचरमसमये समयोनावलिकाद्वयबद्धनूतनपुरुषवेददलं मुक्त्वा शेषं पुरुषवेदं हास्यषटकेन सह परिक्षप्य ततो-ऽवेदभावे तावता
अजयधवलाकारैरप्युक्तम्-एस्थित्थिवेदोदयक्खवयस्सेत्ति वयणं सेसवेदोदयक्खवयपडिसेहफलं । णिरत्थयमिदं विसेसणं, अण्णवेदोदएण वि चढिदस्स खवयस्स जहण्णढिदिसंकमाविरोहादो । ण च सोदय-परोदएहि चढिदाणं खवयाणमित्थिवेदचरिमट्ठिदिखंडयम्मि विसरिसभावो अत्थि, णव॑सयवेदस्सेव तदणुवलंभादो । तम्हा अण्णदरवेदोदइल्लस्स खवयस्सेत्ति सामित्तणि सो कायव्यो त्ति । एत्थ परिहारो-- सच्चमेदमुदाहरणमेत्तं तु इत्थिवेदोदयक्खवयावलंबणं, णेदं तंतमिति घेत्तव्यं । xxxxxxxx. तम्हा सोदए वा परोदएण वा पयदसामित्तमविरुद्धं ।" इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org