________________
४१२ ]
aaraढी
[ गाथा - २२०
दिस्स जा किट्टीकरणडा, माणेण उवदिस्स तम्हि काले अस्सकण्णकरणडा | कोहेण उवदिस्स जा कोहस्स खवणडा, माणेण उवदिस्स तम्हि काले किहोकरणडा । कोहेण उचट्ठिदस्स जा माणस्स खवणडा, माणेण उवदिस्स तम्हि चेव काले माणस्स खवणडा ।" इति। मानक्षपणाद्वा प्रथमसमये तु मानोदयाऽऽरूढस्य किट्टिवेदनाद्वाप्रथमसमये मोहनीयस्य स्थितिसचं चर्वाधिकं जायते, क्रोवतृतीय संग्रह किट्टिवेदनाद्वाचरमसमये मोहनीयस्थितिसत्कर्मणश्चतुर्वार्षिकत्वप्रतिपादनात् । अभाणि च कषायप्राभृतचूणमाणेण उवदिस्स पढमसमय किटीवेदगस्स द्विदिसंतकम्मं चत्तारि वस्त्राणि ।” इति । ततः परं सर्वप्ररूपणा क्रोधोदयारूढवदविशेषेण कर्तव्या । उक्त च कषायप्राभृतचूर्णी"एन्तो पाए जहा कोहेण उवदिस्स विहो, तहा माणेण उवदिस्स ।" इति
अथ मायोदयेन प्रतिपन्नस्य विशेषोऽभिधीयते-- क्रोधोदयारूढः पुरुषवेदक्षपणाऽनन्तरं यदाsaकर्णकरणाद्धायां संज्वलन चतुष्कस्याऽपूर्वस्पर्धकानि करोति, तदा मायोद्यारूढः क्षपकः पूर्वस्पर्धकस्वरूपेणैव क्रोधं संक्रम्य क्षपयति । ततः क्रोधोदयारूढः किट्टिकरणाद्धां प्रवर्तयति, मायोदयारूढस्तु पूर्वस्पर्धस्वरूपेणैव मानं संक्रम्य क्षपयति । ततः क्रोवोदयारूढः क्रोधसंग्रह किट्टित्रयं क्षपयति, तदानीं मायोदयप्रतिपन्नस्त्वश्वकर्ण करणाद्धामारभमाणो मायालोमयो र पूर्वस्पर्वका करोति । इत्थं द्वयोः = कोधमानयोः क्षपणानन्तरं मायोदयेन प्रतिपन्नस्याऽश्वकर्णकरणाद्धा प्रवर्तते । ततः क्रोधोदयारूढो मानं क्षपयति, मायोदयेन समारूढस्तु मायालो भयोः पट् संग्रहकट्टीः करोति । ततः क्रोधोदयेन प्रतिपन्नो मायाकिट्टीर्वेदयन् मायां विनाशयति, मायोदयेन क्षपकश्रेणिमधिगतोऽपि मायायाः किट्टीर्वेदयन् मायां क्षपयति । न्यगादि च कषायप्राभृतचूर्णी - "कोहेण उवदो जहि अस्सकण्णकरणं करेदि, मायाए उवद्विदो तम्हि कोहं खवेदि । कोहेण दो जहि किट्टीओ करेदि, मायाए उवद्विदो तम्हि माणं खवेदि | को
दो जहि कोधं खवेदि, मायाए उवट्ठिदो तम्हि अस्सकण्णकरणं करेदि । कोहेण उचट्ठिदो जम्हि माणं खवेदि, मायाए उवडिदो तम्हि किट्टीओ करेदि । कोहेण उवहिदो जम्हि मायं खवेदि, तम्हि चेव मायाए उवद्विदो माय खवेदि ।” इति । मायाकिट्टिवेदनाद्धाप्रथमसमये तु मायोदयाऽऽरूढस्य जीवस्य मोहनीयस्य स्थितिसचं द्विवार्षिक भवति, क्रोधोदयारूढस्य मानतृतीय संग्रह किट्टिवेदनाद्धाचरमसमये स्थितिसत्कर्मणो द्विवार्षिकत्वसंस्तवात् । अभ्यधायि च कषायप्राभृतचूर्णो - "मायाए उवदिस्स पढमसमयकिट्टी वेदगस्स वे वस्साणि मोहणीयस्स हिदिसंतकम्मं ।" इति । ततः परं क्षपितमायः क्रोधोदयारूडवद् मायोदयारूढोऽपि लोभं क्षपयति । उक्तञ्च कषायप्राभृतचूर्णौ - "एत्तो पाए लोभं खवेमाणस्स णत्थि णाणत्तं ।" इति ।
सम्प्रति यो लोभोदयेन क्षपकश्रेणि प्रतिपद्यते, तस्य भेदो दर्श्यते-- क्रोधोदयारूढः पुरु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org