________________
मानादिभिरारूढानां क्रियाभेदः] किट्टिवेदनाद्वाधिकारः
[४११ जम्महंती कोहस्स पढमहिदी, कोहस्स चेव खवणद्धा माणस्स च खवणहा, मायाए उवहिदस्स एम्महंती मायाए पढमहिदी ।" इति । ____ लोभोदयेन क्षपकश्रेणिं समधिगतस्य जन्तोर्लोभस्य प्रथमस्थितिः क्रोध-मान-मायासम्बन्धिक्षपणाद्धा-न्वितक्रोधप्रथमस्थितिप्रमाणा भवति । प्रत्यपादि च कषायमाभृतचूर्णी“जबेहो कोहेण उवहिदस्स कोहस्स पढमहिदी, कोहस्स माणस्स मायाए च खवणडा, तद्देही लोभेण उवहिदस्स पढमहिदो।” इति । अत एव द्वाचत्वारिंशत्तमगाथोक्ताल्पबहुत्वं मूपपद्यते ॥२१९॥
अथ मानादिकषायोदयेन प्रतिपन्नानां क्षपकाणां क्रियाभेदमभिधित्सुराहइग-दु-ति-खवणं किया कमेण हयकण्णकिट्टिकरणाइं । माणाईहिं चडिओ करइ विणासइ तओ सेसं ॥२२०॥
एक-द्वि-त्रि-क्षपणां कृत्वा क्रमेण हयकर्ण-किट्टिकरणे ।।
मानादिभिरारूढः करोति विनाशयति ततः शेषम् ।।२२०।। इति पदसंस्कारः । 'इगदुः' इत्यादि, तत्र 'मानादिभिः' मानमायालोभलक्षणैः कषायैः 'आरूढः' क्षपकश्रेणिं प्रतिपन्नः 'एक-द्वि-त्रि-क्षपणाम्' एकश्च द्वौ च त्रयश्चेत्येकद्वित्रयः, तेषां क्षपणा, ताम् , ततश्चायमर्थः-एफस्य-क्रोधस्य, द्वयोः-क्रोधमानयोः, त्रयाणां-क्रोधमानमायानां क्षपणां-विनाशं 'कृत्वा' विधाय 'क्रमेण हयकर्णकिट्टिकरणे क्रमेणाऽश्वकर्णकरणं किट्टिकरणं च करोति 'विणासइ' इत्यादि, तत्र 'ततः' किट्टिकरणाद्धापरिसमाप्तेः परं 'शेष' यथासंभवं मानादित्रयरूपं मायालोभरूपं वा लोभलक्षणं वा मोहनीयं 'विनाशयति' यथाक्रमं किट्टिस्वरूपेण क्षपयति । अयमस्य भावार्थ:-क्रोधोदयेन समारूढः पुरुग्वेदक्षपणा-ऽनन्तरं यदा-ऽश्वकर्णकरणाद्वायां संज्वलनचतुष्कस्या-ऽपूर्वस्पर्धकानि निर्वर्तयति, तदा मानोदयेन क्षपकश्रेणिं प्रतिपन्नः संज्वलनक्रोधं पूर्वस्पर्धकस्वरूपेणैव क्षपयति, प्रकारान्तरा-ऽसंभवात् । ततः क्रोधोदयारूढः संज्वलनचतुष्कस्य किट्टिकरणाद्धामारभते, मानोदयप्रतिपन्नस्तु क्षपितक्रोधो-ऽश्वकर्णकरणाद्धामारभते, तत्र च संवनत्रिकस्या-ऽपूर्वस्पर्धकानि करोति । तेन मानोदयारूढस्य जीवस्यैकस्य क्रोधस्य क्षपणाद्धानन्तरमश्वकर्ण करणाद्वा प्रवर्तत इति सूपपन्नम् । ततः क्रोधोदयेन प्रतिपन्नस्य क्रोधसंग्रहकित्रियवेदनकाल लक्षणः क्रोधक्षपणाकालः प्रवर्तते, मानोदयेन तु प्रतिपन्नस्य किट्टिकरणाद्धा प्रवर्तते, तदानीं च संज्वलनत्रिकस्य नवानामेव संग्रहकिट्टीनां निर्वर्तनं संभवति, क्रोधस्य प्रागेव स्पर्धकस्वरूपेण क्षीणत्वात् । तच त्र्यशीतितमगाथया दर्शितम् । ततः क्रोधोदयेन समारूढो मानसंग्रहकिट्टिप्रथमस्थितिं कृत्वा मानक्षपणाद्धामारभते, तदानीमेव च मानोदयारूढोऽपि मानक्षपणाद्धामुपक्रमते । समवादि च कषायप्राभृतचूर्णी-"जम्हि कोहेण उवहिदो अस्सकण्णकरणं करेदि,माणेण उवहिदो तम्हि काले कोहं खवेदि,कोहेण उव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org