________________
४१०] .. खवगसेढी
[ गाथा--२१९ प्रतिपन्नानां क्षपकाणां 'मानप्रभृतीनां' मान-माया-लोभरूपाणां कषायाणां प्रथमस्थितिस्तु 'क्रोधाधेक-द्वि-त्रिक्षपणाद्धायुतक्रोधप्रथमस्थितिप्रमाणा' क्रोधादीनां क्रोध-मान-मायानाम् एक-द्वि-विक्षपणाद्धायुक्तक्रोधप्रथमस्थितिप्रमिता भवति । इदमुक्त भवति-एकस्य-क्रोधस्य याऽन्तमुहूर्तप्रमाणा क्षपणाद्धा, तया युक्ताऽन्तरकरणे क्रियमाणे क्रोधप्रथमस्थितियवती भवति, तावती मानोदयेन क्षपकश्रेणिं समारूढस्य जीवस्य मानस्य प्रथमस्थितिर्भवति ।
ननु क्रोधोदयारूढः क्रोधप्रथमस्थितिं वेदयन्नेव यथायोग्यं संक्रमेण वेदनेन च क्रोधसंग्रहकिट्टित्रयं क्षपयति । तेन क्रोधक्षपणाद्वायाः क्रोधप्रथमस्थितावेवा-ऽन्तर्भावसम्भवात् क्रोधक्षपणाद्धायुतक्रोधप्रथमस्थितिप्रमाणा मानप्रथमस्थितिरित्यत्र क्रोधक्षपणाद्धायुतेति विशेषणस्य वैयर्थेनाऽनुपादेयत्वमिति चेत् , मैवम् , यतोऽन्तरकरणे क्रियमाणे क्रोधोदयाऽऽरूढस्य जीवस्याऽन्तरकरणस्याऽधस्ताद् यावती क्रोधस्थितिर्भवति, यस्यां च स्थितोऽन्तरकरणं कृत्वा ततो यथाक्रमं वेदत्रिकं क्षपयित्वा-ऽश्वकर्णकरणाद्धां च समाप्य किट्टिकरणाद्धायाश्चरमसमयं प्राप्नोति, तावती स्थितिः क्रोधप्रथमस्थितिरत्र विवक्षिता । द्वितीयस्थितितो दलं गृहीत्वा क्रोधसंग्रहकिट्टित्रयस्य यथाक्रमं प्रथमस्थितिं कृत्वा वेदयन् सक्रमेण यावता कालेन क्रोधं क्षपयति, तावान् कालस्तु क्रोधक्षपणाद्धा व्यपदिश्यते । एवमग्रेऽपि मानादीनां क्षपणाद्धा व्याख्येया । इत्थमन्तरकरणक्रियाप्रारम्भप्रथमसमयप्रभृतिकिट्टिकरणचरमसमयपर्यवसानाद्धा क्रोधप्रथमस्थितिः, क्रोधप्रथमसंग्रहकिट्टिवेदनाद्धाप्रथमसमयप्रभृतितृतीयसंग्रहकिट्टिवेदनाद्धाचरमसमयपर्यवसाना तु क्रोधक्षपणाद्धति विवेकः, तेन क्रोधक्षपणाद्धा क्रोधप्रथमस्थितो ना-ऽन्तर्भवति । अनन्तर्भावाद् न विशेषणस्य वैयर्थ्यम् , अवैयर्थ्याच नाऽनुपादेयतेत्यलं प्रसङ्गेन ।
__मानोदयारूढः क्रोधक्षपणाद्धायुक्तकोधप्रथमस्थितिप्रमाणां मानप्रथमस्थितिं वेदयन् यथाक्रम वेदत्रयस्य क्रोधस्य च क्षपणामश्वकर्णकरणाद्धां किट्टिकरणाद्धां च परिसमापयति । तस्य जीवस्य क्रोधस्य प्रथमस्थितिर्न भवति । यदाहुः कषायप्राभृतचूर्णी-"अन्तरकरणे कदे कोहस्स पढमहिदी णत्थि, माणस्स अस्थि । सा केम्महंतो ? जद्देही कोहेण उवढिदस्स कोहस्स पढमहिदी कोहस्स चेव खवणडा, तबेहो चेव एम्महंती माणेण उवहिदस्स माणस्स पढमहिदी।" इति । ___मायोदयेन क्षपकश्रेणिं समारूढस्य जीवस्य मायायाः प्रथमस्थितिः क्रोधमानक्षपणाद्धायुक्तक्रोधप्रथमस्थितिप्रमिता भवति । क्रोधक्षपणाद्धाप्राग व्याख्याता । मानसंग्रहकिट्टित्रयं वेदनेन संक्रमेण च यावता कालेन क्षपयति, तावान् कालो मानक्षपणाद्धा व्यपदिश्यते । इत्थं क्रोधस्य क्षपणाद्धा मानस्य क्षपणाद्धा क्रोधोदयेन चाऽऽरूढस्य क्रोधप्रथमस्थितिरित्येतत्त्रयप्रमाणा मायोदयेन समारूढस्य मायायाः प्रथमस्थितिभवति । उक्तञ्च कषायप्राभूतचूर्णी-“कोहेण उवढिदस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org