________________
[ ४०९
कषायनानात्वम् ]
किट्टिवेदनाद्धाधिकारः तान्यपि समये समय एकै क्षपयति । क्षपितलोभश्च यथाख्यातचारित्री छद्मस्थवीतरागो भवति । अक्षराणि त्वेवम् .. "ताहे णपुसगवेदं, ताहे इत्थिवेदं, ताहे छकं हास-रति-अरति-भयसोग-दुगंछाओ, ताहे पुमवेदं तिन्नि भागे करेति । दो भागे जुगवं, एगं संजलणकोहे छुभति । ताहे संजलणकोहं तिन्नि भागे करेति, दो भागे जुगवं खति, एगं भागं संजलणे माणे छुभइ । ताहे तं पि तिन्नि भागे करेति । दो भागे जुगवं खवेति । एगं संजलणमायाए छुहइ, ताहे तं पितिन्नि खंडाइ करेति, दो भागे जुगवं खवेति, एगं संजलणे लोभे छुहइ, ताहे तं पि तिन्नि भागे करेति, दो भागे जुगवं खवेति, एगं भागं संखेजाइं खंडाई करेति । एत्थ बादरसंपरायो खवओ ताहे खवेति, (एगं संखिजइमं भागं मोत्तण सव्वं खवेति) जं संखेजतिमं खंडं, तं असंखेज्जे भागे करेति । तेऽवि कमेण खवेति, तत्थ खवगो सुहमसंपराओ। जाहे तं पि खवितं भवति, ताहे खवगणियण्ठो लम्भति ।” इति ॥२१८॥
सूक्ष्मसम्परायगुणस्थानकं यावदधस्तादुक्ता सर्वा प्ररूपणा पुरुषवेदक्रोधोदयेन प्रतिपन्नस्य ज्ञातव्या । क्षपकश्रेणिं पुनः कश्चिज्जन्तुः पुरुषवेदक्रोधोदयेन प्रतिपद्यते, कश्चित्पुनः पुरुषवेदमानोदयेना-ऽऽरोहति, अन्यः पुरुावेदमायोदयेन, इतरः पुरुषवेदलोभोदयेन, परस्तु स्त्रीवेदक्रोधोदयेन । पुरुषवेदोदयवत् स्त्रीवेदोदयस्यापि चत्वारो विकल्या वक्तव्याः, एवं नपुसकवेदोदयस्या-ऽपि चत्वारो विकल्पा भणितव्याः । इत्थं सर्वसंख्यया विकल्पा द्वादश भवन्ति । तत्र सूक्ष्मसम्परायगुणस्थानकं यावत् पुरुषवेदक्रोधोदयेन क्षपकश्रेणिं प्रतिपन्नस्य मोहनीयक्षपणाविधिदर्शितः । सम्प्रति भिन्नभिन्नकषायोदयेन भिन्नभिन्नवेदोदयेन च क्षपकश्रेणि प्रतिपद्यमानानां क्रियाभेदो वक्तव्यः, अन्यथा तनिर्णयो न स्यात् । न च त्रिकालमाश्रित्य सर्वक्षपकाणामनिवृत्तिकरणे परिणामसाहश्यात् क्रियाभेदः कथं घटेत् ? इति वाच्यम्, करणपरिणामानां सादृश्येऽपि भिन्नभिन्नवेदकषायोदयलक्षणसहकारिकारणोपलम्भेन क्रियाभेदे विरोवा-ऽभावात् । तत्र सर्वेषां क्षपकाणां पुरुषवेदादिमिः क्रोधादिभिश्च क्षपकश्रेणिं प्रतिपन्नानामन्तरकरणक्रियातः प्राक कश्चिदपि भेदो नास्ति । उक्तञ्च कषायप्राभतचूर्णी-"अंतरे अकदे णत्थिणाणत्।” इति अन्तरकरणे क्रियमाणे यो भेद उपलभ्यते, तं प्रदिदर्शयिपुः प्रथमं तावत् प्रथमस्थितिभेदमाविष्करोति
माणादीहिं चडिआणं पढमठिई उ माणपहुडीणं । कोहादिगदुतिखवणद्धाजुअकोहपढमट्टिइपमाणा ॥२१९॥ (गीतिः)
मानादिभिरारूढानां प्रथमस्थितिस्तु मानप्रभृतीनाम् । ___ क्रोधाद्य कद्वित्रिक्षपकाद्धायुतक्रोधप्रथमस्थितिप्रमाणा ॥२१९।। इति पदसंस्कारः । 'माणा' इत्यादि, 'मानादिभिः' मानमायालोभलक्षणैः कषायैः' आरूढानां' क्षपकश्रेणि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org