SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ ४०८] खवगसेढी [गाथा-२१८ सूक्ष्मकिट्टिवेदनकालतो यावत् क्रोधप्रथमायाः । वेदनकालं कालोऽधिकः पश्चानुपूर्व्या ॥२१८।। इति पदसंस्कारः । 'सुहुम०' इत्यादि, प्राकृतत्वात् स्वार्थिकः कप्रत्ययः, सूक्ष्मकिट्टिवेदनकालतः प्रभृति 'क्रोधप्रथमायाः' क्रोधप्रथमसंग्रहकिट्टया वेदनकालं यावत् 'कालः' किट्टिवेदनकाल: 'अधिको' विशेषाधिको भवति । इदमुक्त भवति-लोभस्य सूक्ष्मकिट्टिवेदनाद्धा सर्वस्तोका भवति , ततो लोभस्य द्वितीयसंग्रहकिट्टिवेदनाद्धा विशेषाधिकाऽभिधातव्या, आधिक्यं च संख्येयतमभागेन बोद्धव्यम् । एवमग्रेऽपि । ततोऽपि लोभस्य प्रथमसंग्रहकिट्टिवेदनाद्धा विशेपाधिका वाच्या । ततो मायायास्तृतीयसंग्रहकिट्टिवेदनाद्धा विशेषाधिका वक्तव्या । ततो मायाद्वितीयसंग्रहकिट्टिवेदनाद्धा विशेषाधिकाऽभिधेया । ततो मायाप्रथमसंग्रहकिट्टिवेदनाद्धा विशेपाधिका निगदितव्या । ततो मानतृतीयसंग्रहकिट्टिवेदनाद्धा विशेषाधिका वक्तव्या । ततो मानद्वितीयसंग्रहकिट्टिवेदनाद्धा विशेषाधिका कथयितव्या । ततो मानप्रथमसंग्रहकिट्टिवेदनाद्धा विशेषाधिकाऽभिधातव्या । ततः क्रोधतृतीयसंग्रहकिट्टिवेदनाद्धा विशेषाधिका भणितव्या । ततः क्रोधद्वितीयसंग्रहकिट्टिवेदनाद्धा विशेषाधिका व्याहर्तव्या । ततोऽपि क्रोधप्रथमसंग्रहकिट्टिवेदनाद्धा विशेपाधिका प्ररूपयितव्या । यदुक्तं कषायप्राभूतचूर्णी-पच्छिमकिहिमंतोमुहुत्तं वेदयदि, तिस्से वेदगकालो थोवो, एक्कारसमीए किट्टीए वेदगकालो विसेसाहिओ, दसमीए किटीए वेदगकालो विसेसाहिओ, णवमीए किट्टीए वेदगकालो विसेसाहिओ। अट्ठमीए किट्टीए वेदगकालो विसेसाहिओ। सत्तमोए किटोए वेदगकालो विसेसाहिओ, छट्ठीए किहोए वेदगकालो विसेसाहिओ, पंचमोए किट्टीए वेदगकालो विसेसाहिओ, चउत्थोए किट्टीए वेदगकालो विसेसाहिओ, तदियाए किटोए वेदगकालो विसेंसाहिओ, विदियाए किटोए वेदगकालो विसेसाहिओ, पढमाए किट्टीएवेदगकालो विसेसाहिओ । विसेसो संखेज्जिदिभागो।” इति । आवश्यकादिग्रन्थाभिप्रायेण मोहनीयस्य क्षपणेत्थं प्रतिपादनीया तद्यथा-हास्यषटकस्य क्षपणातः परं पुरुषवेदं खण्डवयं करोति । तत्र खण्डद्वयं युगपत्क्षपयति, तृतीयखण्डं तु संज्वलनक्रोधे प्रक्षिपति । ततः संज्वलनक्रोधं खण्डत्रयं करोति । द्व' खण्डे युगपत्क्षपयति, तृतीयखण्डं तु माने प्रक्षिपति । ततः संज्वलनमानं खण्डत्रयं करोति । खण्डद्वयं युगपत् क्षपयति, एकखण्डं तु मायायां प्रक्षिपति । ततः संज्वलनमायां त्रीणि खण्डानि करोति, खण्डद्वयं युगपत्क्षपयति, एकखण्डं तु संज्वलनलोभे प्रक्षिपति । ततः संज्वलनलोभं खण्डत्रयं करोति । खण्ड़े युगपत् क्षपयति । एकखण्डं तु संख्येयानि खण्डानि करोति, तेभ्य एकं संख्येयतमखण्डं मुक्त्वा शेषाणि सर्वखण्डानि पृथक पृथक कालभेदेन क्षपयति बदरसम्परायः। ततः सूक्ष्मसम्परायगुणस्थानकवर्ती क्षपक एकं संख्येयतमभागमसंख्येयानि खण्डानि करोति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy