________________
किट्टिक्षपणाया उपसंहारः] किट्टिवेदनाद्धाधिकारः
[ ४०७ 'खविआ' इत्यादि, 'क्षपिताः' विनाशिताः' एकादश किट्टयः' क्रोधप्रथमसंग्रहकिट्टिप्रभृतिलोभद्वितीयसंग्रहकिट्टिपर्यवसाना एकादशसंख्यकाः संग्रहकिट्टयः 'अनुभवनेन' विपाकोदयस्वरूपेण वेदनेन 'संक्रमेण च यथासंभवमन्यसंग्रहकिट्टिषु संक्रान्त्या च । इदमुक्तं भवति-क्रोधप्रथमसंग्रहकिट्टयादिवेदनाद्धाप्रथमसमयतः प्रभृति स्वस्ववेदनाद्धाचरमसमयं यावत् तत्तत्संग्रहकिट्टथवान्तरकिट्टीरुदयेन वेदयमानोऽन्यसंग्रहकिट्टयवान्तरकिट्टितया च परिणमयन् क्षपयति स्म, एतच्च प्राग् विस्तरेण परिभावितम् । 'दुखणणः' इत्यादि, "द्विक्षणोनद्वयावलिके' द्विसमयोनद्वयावलिकाबद्धाः किट्टयः, स्वस्ववेदनाद्धायां क्षीणायामपि या द्विसमयोनद्वथावलिकाबद्धाः किट्टयस्तत्तत्संग्रहकिट्टिस्वरूपेण तिष्ठन्ति स्म, ता इत्यर्थः, 'संक्रमेण वेद्यमानसंग्रहकिट्टौ संक्रमेण क्षपिताः, स्वस्त्रवेदनाद्धायां क्षीणायां द्विसमयोनद्वयावलिकाबद्धकिट्टीनां संक्रमेणैव क्षपणासंभवात् । चकारोऽनुक्तसमुच्चयार्थको भिन्नक्रमश्च, स चैकादशसंग्रहकिट्टिप्रथमस्थितिचरमावलिकागतावान्तरकिट्टीर्लोभतृतीयसंग्रहकिट्टिश्चाऽपि संक्रमेणैव क्षपयति स्मेति सचिनोति । 'अनुभवनेन' विपाकोदयस्वरूपेण वेदनेन 'सूक्ष्माः' सूक्ष्मकिट्टयः क्षपिताः, न तु परत्र संक्रमण, पतद्ग्रहाऽभावात् । उक्तं च कषायप्राभृते
“पढमं विदियं तदियं वा वेदेंतो वि संछहंतो वा।
चरिमं वेदयमाणो खवेदि उभएण सेसाओ ॥१॥ एवं तच्चूर्णावपि-" पढमं कोहस्स किहिं वेदेंतो वा खवेदि, अधवा अवेदंतो संछुहंतो। जे दो आवलियबंधा दुसमयूणा, ते अवेदतो खवेदि, केवलं संछुहंतो चेव । पढमसमयवेदगप्पहुडि जाव तिस्से किटीए चरिमसमयवेदगो ति ताव एवं किटिं वेदेतो खवेदि। एवमेदं पि पढमकिटिं दोहिं पयारेहिं खवेदि-किंचिकालं वैदेतो, किंचि कालमवेयेंतो संछुहंतो। जहा पढमकिटिंखवेदि, तहा विदियंतदियं चउत्थंजाव एक्कारसमि त्ति, बारसमीए बादरसांपराइयकिटोए अव्ववहारो । 'चरिमं वेदेमाणो'त्ति अहिप्पाओ-जा सुहमसांपराइयकिटी, सा चरिमा,तदो तं चरिमकिटिं वेदतो खवेदि, ण संछुहंतो । सेसाणं किटोणं दो दो आवलियबंधे दुसमयूणे चरिमे संछुहंतो चेव खवेदि, ण वेदेंतो । चरिमकिटिं वज्ज दो आवलियदुसमयूणबंधे च वज ज सेसकिहीणं, तमुभएण खवेदि।" इति ॥२१७॥
मोहनीयस्य सर्वथा क्षपणां व्याहृत्य किट्टिवेदनकालस्या-ऽल्पबहुत्वं भणति, अन्यथा किट्टिवेदनकालानुगमो न स्यात् , किं क्रोधप्रथमसंग्रहकिट्टिवेदनकालोऽल्प आसीत् ? उत सूक्ष्मकिट्टिवेदनकालः ?आहोस्विद् इतरसंग्रहकिट्टिवेदनकाल इति ? सुहुमगकिट्टीवेयणकालत्तो जाव कोहपढमाए। वेयणकालं कालो अहिओ पच्छाणुपुब्बीए ॥२१८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org