________________
सूक्ष्प्रसम्परायचरमसमये बन्धः सत्त्वञ्च ] किट्टिवेदनाद्वाधिकारः
[ ४०५
अथाऽघातिकर्मणां स्थितिबन्धं भणति - 'णामदुगस्स' इत्यादि, 'नामद्विकस्य' नाम - गोत्ररूपस्य 'बन्धः ' स्थितियन्त्रः सूक्ष्मसम्परायगुणस्थानकचरमसमयेऽष्टमुहूर्ता भवति, योनिवृत्तिवादरसम्परायगुणस्थानकचरमसमयेऽन्तर्वर्षप्रमाण आसीत्, स क्रमेण हीयमान इदानीमष्टमुहूर्तप्रमाणो जायत इत्यर्थः । 'तइयस्स' इत्यादि, 'तृतीयस्य' वेदनीयस्य स्थितिबन्धो 'द्वादश मुहूर्ता' द्वादशमुहूर्तप्रमाणो भवति । उक्तं च कषायप्राभृतचूर्णो – “जाघे चरिमसमयसुहुमसांपराइयो जादो, ताधे णामागोदाणं ठिदिबंधो अट्ठ मुहुत्ता, वेदणीयस्स ठिदिबंधो बारस मुहुत्ता ।" इति ।
I
अयं स्थितिबन्धो यशःकीच्यु च्चैर्गोत्रयोः सातवेदनीयस्य च सर्वजघन्यो ज्ञातव्यः ।
तदानीमेव च यशःकी च्चै गत्रियोः सातावेदनीयस्य च सर्वोकृष्टाऽनुभागबन्धो जायते । प्रतिपादितं च कर्मप्रकृतिटीकायाम् - "तथाऽप्रमत्तसंयतो देवायुष उत्कृष्टाऽनुभागस्वामी सर्वेभ्यस्तद्बन्धकेभ्यो ऽस्याऽतिविशुद्धत्वात् । सात वेदनीययशः कीत्यु - चैत्राणां सूक्ष्मसम्परायचरमसमये वर्तमानस्तथा, तदुबन्धकेभ्योऽस्यैवातिविशुद्धत्वात् । " इति ।
'संत' इत्यादि, सूक्ष्मसम्परायगुणस्थानकचरमसमये 'सच्चं ' स्थितिसचं तुर्वाक्यभेदे 'अघातिनां' नामगोत्र वेदनीयरूपाणां कर्मणाम् 'असंख्येयवर्षाणि' असंख्येयवर्षमात्रं भवति ।
तदानीं यथासमयं चतुरो वारानुपशमश्रेणिमारुह्य क्षपकश्रेणि शीघ्रं प्रतिपन्नस्य गुणित कर्माशस्य जीवस्य सातवेदनीययशः की चैर्गोत्राणामुत्कृष्ट प्रदेशसचं भवति । यदुक्तं कर्मप्रकृतिचूर्णी - "गुणियकम्मंसिगो चत्तारि वारे कसाए उवसामेति, उवसामेंतस्स बहुगा पुग्गला लम्भंतित्ति काउं ततो विप्पमेव खवणाए अन्भुडितो, तस्स सुडुमरागस्स सुहुमरागचरिमसमते वट्टमाणस्स साय - जस- उच्चागोयाणं उक्कोसं पदेससंतं ।” इति । तथा तदानीमेव गुणित कर्माशस्य जीवस्य निद्राद्विकिाऽसातवेदनीय-नीचैर्गोत्र- प्रथमवर्जसंस्थानपश्ववाऽनाद्यसंहननपञ्चकाऽशुभवर्णादिनवकोपघाताप्रशस्त विहायोग त्यपर्याप्ताऽस्थिराऽशुभ- दुर्भग- दुःस्वराऽनादेयाऽयशः कीर्त्तिरूपाणां द्वात्रिंशत्प्रकृतीनामुत्कृष्टप्रदेशसंक्रमो जायते । उक्तं च कर्मप्रकृतिचूर्णौ – “कम्मच उक्के' दंसणावरणवेतणिज्जणामगोतेसु 'असुभाणं अबज्झमाणीण' णिद्दादुगअसातावेयणिज्जआदिल्लवज्ज संठाणसंघयणं कुवण्णणवगं उवघातअपसत्थविहायगतिअपज्जत्तगअथिरादिछक्क गणीतागोत एयासिं बत्तीसाए कंमाणं खवगस्स 'सुहुमरागंते' सुहुमरागस्स चरिमसमए उक्कोसो पदेससंकमो, गुणितकंमंसितस्स गुणसंकमेण लब्भति संछोभ इत्यर्थः ।" इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org