________________
४०४ ]
खवगसेढी
[ गाथा-२१५-२१६ ट्टियठितिं उदओदीरणाहिं वेद॑तो गओ ताव, जाव समयाहियावलियसेस त्ति । तम्मि समए उदीरणा पुव्वुत्ता फिट्टा । उदएण चेव वेदेति ताव, जाव चरिमसमओ त्ति ।”
तदानीं च लोभस्य जघन्याऽनुभागोदयोगुणितकमांशस्य च संज्वलनलोभस्योत्कृष्टप्रदेशोदयो भवति । न्यगादि च कर्मप्रकृतिटीकायां श्रीमन्मलयगिरिपादैरनुभागोदयाधिकारेप्रदेशोदयाधिकारे च-"नवरं ज्ञानावरणपञ्चकाऽन्तरायपञ्चकदर्शनावरणचतुष्टयवेदत्रयसंज्वलनलोभसम्यक्त्वानामुदीरणाव्यवच्छेदे सति परत आवलिका गत्वा = अतिक्रम्य तस्या आवलिकायाश्चरमसमये जघन्याऽनुभागोदयो वाच्यः । xxx तथा मोहानां = मोहनीयप्रकृतीनां सम्यक्त्वसंज्वलनचतुष्कवेदत्रयाख्यानामष्टानांगुणितकर्माशस्य क्षपकस्य स्वस्वोदयचरमसमये उत्कृष्टप्रदेशोदयः।" इति ।
___ अथ सूक्ष्मसम्परायगुणस्थानकचरमसमये स्थितिवन्धं स्थितिसचं चाभिवातुकाम आह'अंते' इत्यादि, 'अन्ते' मूक्ष्मसम्परायगुणस्थानकाद्धाचरमसमये 'त्रयाणां घातिनां' मोहनीयबन्धस्य व्यवच्छिन्नत्वाज्ज्ञानावरणदर्शनावरणाऽन्तरायाणां 'बन्धः' स्थितिवन्धः 'तथा' तथाशब्दः समुच्चयार्थकः 'सत्त्वं' स्थितिसचं 'मुहूर्तान्तः' अन्तमुहूर्तमानं भवति । भावार्थः पुनरयम्-अनिवृत्तिबादरसम्परायगुणस्थानकाद्धायाश्चरमसमये घातित्रयस्य यः स्थितिबन्धोऽन्तरहोरात्रप्रमाण आसीत्, स क्रमेण हीयमानः सम्प्रत्यन्तमुहूर्त जायते । स्थितिसत्त्वं पुनरनिवृत्तिकरणबादरसम्परायचरमसमये संख्येयवर्षाण्यासीत्, तत्क्रमेण संख्यातसहस्रः स्थितिघातीयमानमिदानीमन्तमुहूर्तप्रमाणं जायते । प्रत्यपादि च कषायप्राभूतचूर्णी--"जाधे चरिमसमयसुहुमसांपराइयो जादो,ताधेxxx तिण्हंघादिकम्माणं डिदिबंधोअंतोमुहुत्तं । तिण्हंघादिकम्माणं हिदिसंतकम्मअंतोमुहुत्त।'' इति । अयं च चरमस्थितिबन्धो ज्ञानावरणपश्चकस्य दर्शनावरण चतुष्कस्याऽ-तरायपञ्चकस्य च सर्वजघन्यो ज्ञातव्यः । उक्तं च कर्मप्रकृतिटीकायां श्रीमदुपाध्यायपुङवैः-"ज्ञानावरणपञ्चकदर्शनावरणचतुष्काऽन्तरायपञ्चकसातवेदनोययशःकोयुच्चैौत्राणां सूक्ष्मसम्परायक्षपकश्चरमस्थितिबन्धे वर्तमानो जघन्यस्थितिबन्धकः, तबन्धकेष्वस्यवाऽतिविशुद्धत्वात् ।" इति । तथा सूक्ष्मसम्परायचरमसमय एव ज्ञानावरणादीनां चतुर्दशानां जघन्याऽनुभागबन्धो जायते । अवादि च कर्मप्रकृतिटोकायाम्-"ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयाऽन्तरायपञ्चकरूपाणां चतुर्दशानां प्रकृतीनां क्षपकः स्वबन्धव्यवच्छेदसमये वर्तमानः समयमेकं तथा, तबन्धकेषु तस्य विशुद्धतमत्वात् ।' इति । इदमत्राऽवधेयम्-मूक्ष्मसम्परायचरमसमये केवलज्ञानावरणकेवलदर्शनावरणयोरनुभागबन्धो जघन्यो भवन्नपि सर्वघाती भवति, बन्धे तयोरनुभागस्य देशघातित्वाऽनुपलम्भात् । शेषाणां द्वादशानां प्रकृतीनामनुभागबन्धो देशघाती भवति, अनिवृत्तिकरणेऽपि देशघातित्वप्रतिपादनात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org