SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ arrat मोहनीयचरमस्थितिखण्डे घातिते यद्भवति तद्वक्तुकाम आह-चरिमे खंडे णट्ठे तु णत्थि मोहस्स ठिघाओ । ठिइसतं उण सुहुमद्धापमिअं होइ मोहस्स ॥ २१४॥ (उपगीतिः) ४०२ ] चरमे खण्डे नष्टे तु नास्ति मोहस्य स्थितिघातः । स्थितिसत्त्वं पुनः सूक्ष्माद्धाप्रमितं भवति मोहस्य || २१४ || इति पदसंस्कारः । 'चरिमे' इत्यादि, 'चरमे खण्डे' मोहनीयकर्मणश्चरमस्थितिखण्डे नष्टे तु 'मोहस्य' मोहनीयकर्मणः स्थितिघातो 'नास्ति' न भवति शेषाणां ज्ञानावरणादीनां कर्मणां स्थितिघातादयः पूर्ववत् प्रवर्तन्ते । उक्तं च सप्ततिका चूर्णी - "तओ पभिति मोहस्स ठिति - घाओ णत्थि, सेसाणं कम्माणं ठिदिघातादओ पवत्तंति चेव ।” इति । तथैव कषाप्राभृतचूर्णावपि, नवरं कषायप्राभृतचूर्णिकारैर्ज्ञानावरणादिकर्मणां स्थितिघातादीनां प्रवृतिर्न दर्शिता, पूर्वतः प्रवृत्तानां प्रतिषेधाभावेनाऽनुक्तसिद्धत्वात् । अक्षराणि त्वेवम् "तम्हि ठिदिखंडये उक्किण्णे तदोप्पहूडि मोहणीयस्स णत्थि ठिदिघादो ।" इति । अथ तदानीं स्थितिसत्त्वं प्ररूपयति- 'ठिइसंत' इत्यादि, मोहनीयचरमस्थितिखण्डे विनष्टे ‘मोहस्य' मोहनीयकर्मणः स्थितिसचं पुनः 'सूक्ष्माद्धाप्रमितं ' शेषसूक्ष्मसम्परायगुणस्थानकाद्धाप्रमाणं 'भवति' जायते, नाधिकम् । न्यगादि च कषायमाभृतचूर्णो- “जत्तियं सुहमसांपराइयडाए सेसं, तत्तियं मोहणीयस्स ठिदिसंतकम्मं सेसं ।" इति । तदपि पूर्वपूर्वसमयत उत्तरोत्तरसमय एकैकसमयेन हीनं हीनतरं भवति, उदयेनैकैकनिषेकस्याऽनुभवनात् ॥ २१४॥ I [ गाथा-२१४-२१६ मोहनीयचरमस्थितिखण्डं घातयित्वा सूक्ष्म किट्टीरुदयेनाऽनुभवतो जीवस्य सूक्ष्मसम्परायगुणस्थानककाले समयाधिकावलिकाशेषे लोभजघन्यस्थित्युदीरणादयः पदार्थाः प्रवर्तन्ते, तान् व्याजिहीषु राह समयाहियआवलिसेसम्म टिइउदीरणा जहणंते । तिन्हं घाईणं बंधो तह संतं मुहुत्तो ॥ २१५ ॥ णामदुगस्स अडमुहुत्ता तह तइयस्स बारस मुहुत्ता । बंधी संतं तु अघाईण असंखेज्जवासाणि ॥ २१६ ॥ समयाधिकावलिकाशेषे स्थित्युदीरणा जघन्याऽन्ते । त्रयाणां घातिनां बन्धस्तथा सत्त्वं मुहूर्तान्तः || २१५ ।। नामद्विकस्याऽष्टमुहूर्तास्तथा तृतीयस्य द्वादश मुहूर्ताः । बन्धः सत्त्वं त्वघातिनाम संख्येयवर्षाणि ॥ २१६ || इति पदसंस्कारः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy