________________
४०० ]
खवगसेढी
[ गाथा--२१३ प्रमाणत्वाद् , आसां च बहसंख्येयभागप्रमाणत्वात् । उक्तं च कषायप्राभतचूर्णी-"हेढा अणुदिण्णाओ थोवाओ, उवरि अणुदिण्णाओ विसेसाहियाओ। मज्झे उदिण्णाओ सुहुमसांपराइयकिटोओ असंखेज्जगुणाओ।” इति । एवं सूक्ष्मसम्परायगुणस्थानाद्धायाः शेषसमयेष्वपि भावनीयम् , विशेषाभावात् ॥२१२।।
एवंविधिना संख्यातेषु स्थितिघातसहस्रषु गतेषु मोहनीयस्य चरमस्थितिघातकाले यद्भवति, तद्वक्तुकाम आह
सुहुमद्धाए संखेज्जइभागे सेसगे विणासेइ । गुणसेढिसंखभागं अन्तिमखण्डं विघातंतो ॥२१३॥ सूक्ष्माद्धायाः संख्येयतमभागे शेषके विनाशयति । गुणश्रेणिसंख्यभागमन्तिमखण्डं विघातयन् ।। २१३ ।। इति पदसंस्कारः ।
'सुहुमडाए' इत्यादि, संख्यातैः स्थितिघातसहस्रः 'मूक्ष्माद्धायाः' सूक्ष्मसम्परायगुणस्थानकाद्धायाः 'संख्येयतमभागे शेषके' बहुषु संख्यातभागेषु गतेष्वेकस्मिन् संख्येयतम मागे शेषे 'अन्तिमखण्ड' मोहनीयस्य चरमस्थितिखण्डं "विघातयन्' विनाशयन् 'गुणश्रेणिसंख्यभागम्' अग्रतो गुणश्रेणिनिक्षेपस्य संख्येयतमभागं 'विनाशयति' घातयति । अभाणि च कषायप्राभृतचूर्णी-"सुहुमसांपराइयस्स संखेज्जेसु ठिदिखंडयसहस्सेसु गदेसु जमपच्छिमं ठिदिखंडयं मोहणीयस्स, तम्हि हिदिखंडये उक्कीरमाणे जो मोहणीयस्स गुणसेदिणिक्खेवो, तस्स गुणसेदिणिक्खेवस्स अग्गग्गादो संखेज्जदिभागो आगाइदो ।” इति । भावार्थः पुनरयम्-सूक्ष्मसम्परायाद्धायाः संख्येयतमे भागे शेपे मोहनीयस्थितिखण्डमन्तमुहूतमात्रं घातयति, तथा यः सूक्ष्मसम्परायाद्धातो विशेषाधिको गुणगिनिक्षेपः प्रागुक्तः, तस्याऽग्रतः संख्येयतमभागमपि घातयति । घातयश्च सूक्ष्मसम्परायाद्धाचरमसमयेऽभिनवगुणश्रेणिशिरो निवर्तयति । एवं सूक्ष्मसम्परायजीवश्वरमस्थितिखण्डेन गुणश्रेगिपंखोयभागप्रमागनिषेकांस्ततश्च संख्यातगुणानन्यानुपरितननिषेकान् घातगत । तदानों दलनिक्षेपस्त्वनन्तावक्ष्यमागाकारेण संभाव्यते, दर्शनमोहक्षपणाधिकारे सम्यक्त्वमोहनीयदलनिक्षेपस्य कषायप्रामतचूर्णिकारादिभिस्तथाप्रतिपादितत्वात् । अथ दलप्रक्षेपक्रमः-मोहनीयचरमस्थितिघाताद्धाप्रथम पमये दलिकमुत्कीर्योदयनिषेके स्तोकं दलं प्रक्षिपति । ततो द्वितीयनिषेकेऽसंख्येयगुणं दलं निक्षिति, ततोऽपि तृतीयनिषेकेऽसंख्येयगुणम् । एवमसंख्येयगुणक्रमेण तावत्प्रक्षिपति, यावत् सूक्ष्मसम्परायाद्धाचरमनिषेकलक्षणमभिनवश्रेणिशिरः । ततोऽनन्तरनिषेकेऽसंख्ये गुणहीनं दलं ददाति । ततः परं विशेषहीनक्रमेण तावददाति, यावत्पुरातनगुणश्रेणिशिरः। ततः परमनन्तरनिषेकेऽसंख्येवगुणहीनं ददाति । तत ऊर्ध्व विशेषहीनक्रमेण तावत् ददाति, यावदतीत्थापनाऽप्राप्ता भवति । अयं दलनिक्षेपक्रमस्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org