________________
वेद्यमानावेद्यमानसूक्ष्मकिट्टयः, तासाञ्चाल्पबहुत्वम् ] फिट्टिवेदनाद्धाधिकारः
[ ३९९ सुहुमाण हेट्ठिमा उवरिल्लाअ असंखभागमेतीओ। न अणुहवेज्जन्ते सेसा वेइज्जन्ति किट्टीओ ॥२११॥ सूक्ष्माणामधस्तन्य उपरितन्यश्चाऽसंख्यभागमाभ्यः । ना-ऽनुभूयन्ते शेषा वेद्यन्ते किट्टयः ।। २११ ॥ इति पदसंस्कारः।
'सुहुमाण' इत्यादि, सूक्ष्मसम्परायगुणस्थानकाद्धाप्रथमसमये 'सूक्ष्माणां' सूक्ष्मकिट्टीनाम् 'अधस्तन्यः' मन्दानुभागकाः 'उपरितन्यश्च तीव्रानुभागकाश्चाऽसंख्येयभागमाच्यः सूक्ष्मकिट्टयो 'ना-ऽनुभूयन्ते' उदयेन न वेद्यन्ते । ननु काः सूक्ष्मकिट्टयो वेद्यन्ते ? इत्याह-'सेसा इत्यादि, 'शेषाः' उपर्युक्तादन्याः, उपरितन्योऽधस्तन्यश्चासंख्येयभागमात्र्यो याः सूक्ष्मकिट्टयोऽवेद्यमानाः,ताभ्योऽन्या . बह्वसंख्येयभागमाग्यो मध्यमाऽनुभागका इत्यर्थः, 'किट्टयः सूक्ष्मकिट्टयो 'वेद्यन्ते' उदयेना-ऽनुभूयन्ते । यदुक्तं कषायप्राभृतचूर्णी-“से काले पढमसमयसुहुमसांपराइओ। ताधे सुहमसांपराइयकिटोणमसंखेज्जा भागा उदिण्णा ।" इति । इदमुक्तं भवति-प्रथमसमये द्वितीयस्थितितः सर्वसूक्ष्मकिट्टिभ्यो दलिकमपकृष्य प्रथमस्थितिं करोति । तत्राऽसंख्येयभागप्रमाणास्तीवानुभागका मन्दानुभागकाश्चोदयनिषेके मध्यमकिट्टिस्वरूपेण परिणम्य वेदयति, इत्थमसंख्येयभागप्रमाणानां स्वरूपेण वेदनाभावाच्छेषा बह्वसंख्येयभागप्रमाणा मध्यमसूक्ष्मकिट्टीर्वेदयति । एवं द्वितीयादिसमयेष्वपि सूक्ष्मकिट्टिवेदनविधिर्वक्तव्यः, नवरं पूर्वपूर्वसमयत उचरोचरसमये-ऽसंख्येयभागेनाऽधिका अधिकतरा उपरितन्यः सूक्ष्मकिट्टयः स्वरूपेण न वेद्यन्ते, तथा-ऽपूर्वेणाऽसंख्येयभागेनाऽधिका अधिकतरा अधस्तन्यः सूक्ष्मकिट्टयो वेद्यन्ते । एवं तावद्वक्तव्यम् , यावत्सूक्ष्मसम्परायगुणस्थानकाद्धाचरमसमयः ।। २११ ॥
उदीर्णा-ऽनुदीर्णसूक्ष्मकिट्टीरभिधाय सम्प्रति तासामल्पबहुत्वं विभणिषुराहहेट्ठिल्ला अणुदिण्णा थोवा तत्तो विसेसअहिआओ। उवरिल्ला तत्तो य असंखेज्जगुणा उदिण्णाओ॥२१२॥ अधस्तन्योऽनुदीर्णाः स्तोकास्ततो विशेषाधिकाः।। अरितन्यस्ततश्चाऽसंख्येयगुणा उदीर्णाः ।। २१२ ॥ इति पदसंस्कारः ।
'हेहिल्ला' इत्यादि, सूक्ष्मसम्परायाद्धाप्रथमसमये 'अधस्तन्यो' मन्दानुभागका अनुदीर्णाः सूक्ष्मकिट्टयः स्तोका भवन्ति, या मन्दानुभागकाः सर्वसूक्ष्मकिट्टयसंख्येयभागप्रमाणाः सूक्ष्मकिट्टयो न वेद्यन्ते, ताः स्तोका भवन्तीत्यर्थः। 'तत्तो' इत्यादि, 'ततः' अनुदीर्णा-ऽधस्तनसूक्ष्मकिट्टितः 'उपरितन्यः' तीवानुभागका अनुदीर्णाः सर्वसूक्ष्मकिट्टयसंख्येयभागप्रमाणा भवन्त्योऽपि विशेषाधिकाः । 'तत्तो' इत्यादि, 'ततः' अनुदीर्णोपरितनसूक्ष्मकिट्टित उदीर्णा मध्यमाऽनुभागकाः सूक्ष्मकिट्टयोऽसंख्येयगुणा भवन्ति, पूर्वोत्तानामनुदीर्णोपरितनसूक्ष्मकिट्टीनामसंख्येयभाग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org