________________
द्वितीयादिस्थितिघातकाले दीयमानं दृश्यमानञ्च दलम् ] किट्टिवेदनाद्धाधिकारः
बीयाइट्टिइघायेसु ं गुणसेढिउवरिल्लपढमणिसेगं । जावं दिज्जंतं दीसंतं य असंखगुणकमा तो हीणं । २०९ | (आर्यागीतिः)
द्वितीयादिस्थितिघातेषु गुणश्रेण्युपरितनप्रथम निषेकम् ।
यात्रद् दीयमानं दृश्यमानञ्चाऽसंख्यगुणक्रमात् ततो हीनम् ||२०९ || इति पदसंस्कारः ।
[ ३९७
'चोयाइ०' इत्यादि, दलमिति पदं पूर्वतोऽनुवर्तते । 'द्वितीयादिस्थितिघातेषु' सूक्ष्मसम्परायाद्धायां प्रथमस्थितिघाते पूर्णे द्वितीयादिस्थितिघातेषु 'गुणश्रेण्युपरितनप्रथमनिषेकं यावद्' गुणश्रेणेरुपरितनं प्रथमनिषेकं यावद संख्यगुणक्रमाद् दीयमानं दृश्यमानञ्च दलं भवति । 'तो' इत्यादि, 'ततो' गुणश्रेणेरुपरितनप्रथमनिषेकतः परं 'हीनं' विशेषहीनं विशेषहीनं दीयमानं दृश्यमानञ्च दलिकं भवति । इदमुक्तं भवति - सूक्ष्मसम्परायाद्धायां प्रथमस्थितिघाते पूर्णे द्वितीयस्थितिघातप्रथमसमयतः प्रभृति सत्तागतसकलदलाऽसंख्येयभागमात्रं दलमुत्कीर्योत्कीर्णदलाऽसंख्येयभागप्रमितं च दलं गृहीत्वोदयनिषेके स्तोकं दलं ददाति । ततोऽनन्तरद्वितीयनिषेकेऽसंख्येयगुणं दलं ददाति । ततोऽप्यसंख्येयगुणं तृतीयनिषेके । एवमसंख्येयगुणक्रमेण तावत्प्रक्षिपति, यावद्गुणश्रेणिशिरः । तत उत्कीर्णदलस्य बह्वसंख्येयभागप्रमाणाद् दलाद् दलमादाय गुणश्रेणिशीर्षस्योपरितने प्रथमनिषेकेऽसंख्येयगुणं दलं ददाति । ततो विशेषहीनक्रमेण तावद् ददाति यावदतीत्थापनाऽप्राप्ता भवति, नवरं स्थितिघाताद्धायाश्चरमसमये सत्तागतदलस्य संख्येयभागमात्रदलमुत्कीर्य स्थितिखण्डप्रमाणामतीत्थापनां वर्जयित्वा शेषस्थितिषु पूर्वोक्तक्रमेण दलं ददाति । एवंक्रमेण तावद्वक्तव्यम्, यावत्सूक्ष्मसम्परायगुणस्थानके मोहनीयस्य चरम स्थितिघातः । यदवादि कषायप्राभृतचूर्णौ - "विदियादो ठिदिखंडयादो ओकड्डियूण (जं) पदेसग्गमुदये दिज्जदि, तं थोवं । तदो दिज्जदि असंखेज्जगुणाए सेटीए ताव, जाव गुणसेढोसोसयादो उवरिमाणंतरा एक्का डिति त्ति, तदो विसेसहीणं । एत्तो पाए हुमसांपराइयस्स जाव मोहणीयस्स ठिदिघादो ताव एसो कमो ।” इति । एवं दृश्यमानमपि दलं गुणश्रेणेरुपरितनं प्रथमनिषेकं यावदसंख्येयगुणकारेण भवदुपरि मोहनीयचरमनिषेकं यावद् विशेषहीनक्रमेण तिष्ठति । प्रत्यपादि च कषायप्राभृतचूण - "पढमे ठिदीखंड पिल्लेविदे (जं) उदये पदेसग्गं दिस्सदि, तं थोवं । विदियाए ठिदीए असंखेज्जगुणं । एवं ताव, जाव गुणसेढिसोसयं । गुणसेढिसोसयादो अण्णा च एका ठिदित्ति असंखेज्जगुणं दिस्सदि । तत्तो विसेसहीणं जाव उक्कस्सिया मोहणीयस्स ठिदित्ति ।” पश्यन्तु पाठका यन्त्रकम् - २९ ॥ २०९॥
ननु प्रथमस्थितिखण्डे घातिते गुणश्रेणिं मुक्त्वा शेषस्थितिषु दलमेकगोपुच्छाकारेण कुतो भवति ? इति शङ्कां समाधातुकामोऽल्पबहुत्वं भणति -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org