________________
असत्कल्पनया सूक्ष्मसम्पराप्रथमसमये दलनिक्षेपः ] किट्टिवेदनाद्धाधिकारः
[ ३९५ अथाऽन्तरस्थितिनिकैरष्टभिः (८) स्थितिखण्डराशिभत्रिंशद् विभज्यते, तदा संख्यातरूपाणि चत्वारि (३२=४) लभ्यन्ते । तानि च पृथक्पृथक्स्थापयितव्यानि १-१-१-१ । अथ संख्यातरूपेश्चतुर्भिः (४) स्थितिखण्डगतनिषेका द्वात्रिंशद् (३२) भज्यन्ते, तदैकखण्डमष्टनिषेकप्रमाणं प्राप्यते (३१८) । तच्चैकैकं खण्डं पृथक्स्थापितसंख्यातरूपेषु दातव्यम् । १११। इत्थमेकरूपेऽष्टौ निषेकाः प्राप्यन्ते, ते चाऽन्तरस्थितिप्रमाणा भवन्ति । एकरूपे च प्राप्तनिषेका अष्टौ (८) अन्तरस्थितिराशिनाऽष्टरूपेण भज्यन्ते, तदैकनिषेको लभ्यते । स चाऽन्तरस्थितेरेकैकनिषेके प्रक्षेप्तव्यः । दीयमानयेकैकनिषेकयेकलक्षमात्रदलस्य कल्पितत्वादन्तरस्थितेरेकैकस्मिन् निषेके लक्षसङ्ख्यं दलिकं प्रक्षिपति । तेनाऽन्तरस्थितिचरमनिषेके द्वितीयस्थितिप्रथमनिषेकतः किञ्चिदधिकं दलं जायते, तत्र पुरातनदलस्य त्रिंशदधिकनवपश्चाशच्छतमात्रस्य सच्चात् । द्वितीयरूपे प्राप्ताऽष्टनिषेकगतदलमष्टलक्षमात्रं संख्यातराशिना विभक्तव्यम् । संख्यातराशिश्वात्राऽन्तरस्थितिराशिनाष्टाख्येन गुणश्रेणिवर्जसर्वाऽधात्यमानस्थितिनिषेकेषु पटपञ्चाशदधिकद्विशतमात्रेषु विभक्तेषु द्वात्रिंशल्लभ्यते। (२४६=३२)। तेनैकखण्डं पञ्चविंशतिसहस्रदलप्रमाणं (८०००००=२५०००) भवति । ततस्तदेकं खण्डं गृहीत्वाऽष्टनिषेकमात्रेवन्तरस्थितिषु यथाविभागं प्रक्षिपति । तेनाऽन्तरस्थितेरेकैकस्मिन् निषेके साधिकत्रिसहस्रमात्रं दलं प्रक्षिपति । द्वितीयस्थितौ तु बहूनि खण्डानि पादोनाष्टलक्षदलनिष्पन्नानि यथाविभागं (७७५०००) प्रक्षिपति, तेन द्वितीयस्थितिप्रथमनिषेकेऽपि साधिकत्रिसहस्रमानं दलं प्रक्षिप्तं भवति ।
__एवंक्रमेण तृतीयादिरूपेषु प्राप्तनिषेकान् गृहीत्वा यथाविभागमन्तरस्थितिनिपेकेषु द्वितीयस्थितिनिषेकेषु च तथा प्रक्षिपति, यथाऽन्तरस्थितिनिषेकेषु द्वितीयस्थितिनिषेकेषु च दृश्यमानं दलं गोपुच्छाकारेण भवतीति । अनेन क्रमेण दलिके प्रक्षिप्ते द्वितीयस्थितिप्रथमनिषेके प्रक्षिप्यमाणानि दलिकानि सर्वसंख्यया साधिकैकविंशतिसहस्रमात्राणि जायन्ते (साधिकानि २१०००), अन्तरस्थिातेचरमनिषेके तु साधिकैकविंशतिसहस्रोत्तरलक्षमात्राणि (साधिकानि १२१०००) भवन्ति । इत्थमन्तरस्थितिचरमनिषेके दत्तदलिकतो द्वितीयस्थितिप्रथमनिषेके दीयमानदलं संख्येयगुणहीनं जायते ॥२०६-२०७॥
दीयमानदलं प्ररूप्य सूक्ष्मसम्परायाद्वाप्रथमसमयतः प्रभृति दृश्यमानदलं निरुरूपयिपुराहदीसइ अंतरपढमं जाव दलमसंखगुणकमेणं तत्तो। हीणकमेणं बीयाइम्मि असंखगुणमुवरि तु विसेसूणं ॥२०॥
(आर्यागीतिः) दृश्यतेऽन्तरप्रथमं यावद् दलमसङ्ख्यगुणक्रमेण ततः । हीनक्रमेण द्वितीयादावसंख्यगुणमुपरि तु विशेषोनम् ।।२०८।। इति पदसंस्कारः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org