________________
खवगसेढी
[ गाथा--२०८ _ 'दीसई' इत्यादि, तत्र 'अन्तरप्रथमम्' अन्तरकरणप्रथमनिषेकं यावद् 'दलं प्रदेशाग्रम् 'असंख्यगुणक्रमेण' असंख्यातगुणक्रमेण दृश्यते । इदमुक्त भवति-सूक्ष्मसम्परायाद्धाप्रथमसमययुदयस्थितौ स्तोकं दलं दृश्यते । ततो द्वितीयनिषेकेऽसंख्यातगुणम् , ततोऽपि तृतीयनिषेकेऽसंख्यातगुणम् , एवंक्रमेण तावद् दृश्यते , यावद् गुणश्रेणिशिरः । ततोऽपि गुणश्रेणिशिरसोऽनन्तरोपरितननिषेकेऽन्तरकरणप्रथमनिषेक इत्यर्थः, असंख्येयगुणं दलं दृश्यते, दीयमानदलतो दृश्यमानदलस्याऽनतिरिक्तत्वेन दीयमानदलवद् दृश्यमानदलस्याऽपि तथाविधक्रमोपपत्तेः।
'तत्तो' इत्यादि, 'ततः' अन्तरस्थितिप्रथमनिषेकतः परं 'हीनक्रमेण' विशेषहीनक्रमेण दलं दृश्यते, यावदन्तरस्थितिचरमनिषेकः, द्वितीयस्थितिप्रथमनिषेकेऽसंख्येयगुणदृश्यमानदलस्य प्रतिपादनात् । अयं भावः-अन्तरस्थितिप्रथमनिषेकतोऽन्तरस्थितेर्द्वितीयनिषेके विशेषहीनं दलं दृश्यते , ततोऽपि तृतीयनिषेके विशेषहीनं दृश्यते, एवंक्रमेण तावद् दृश्यते, यावदन्तरस्थितेश्वरमनिषेकः, अन्तरस्थितौ दृश्यमानदलस्य दीयमानदलतोऽनतिरेकेण तथाविधक्रमोपपत्तेः ।
'बोयाइम्मि' 'द्वितीयादौ द्वितीयस्थितिप्रथमनिषेकेऽन्तरस्थितिचरमनिषेकतोऽसंख्यगुणं दलं दृश्यते । कथमेतदवसीयते ? इति चेत् , उच्यते--अन्तरस्थितौ सत्तागतसकलदलस्याऽसंख्येयभागमा दलं प्रक्षिप्तम् , उत्कीर्णस्य सकलस्याऽपि दलस्य मोहनीयसकलदलाऽसंख्येयभागमात्रत्वात् । बह्वसंख्यातभागप्रमाणदलं चाऽन्तरस्थितितः संख्यातगुणेषु द्वितीयस्थितिनिषेकेषु यथाविभागं तिष्ठति । तेनाऽन्तरस्थितितो द्वितीयस्थितिप्रथमनिषेके दृश्यमानं दलमसंख्येयगुणं भवति । 'उवरि' इत्यादि, 'उपरि' द्वितीयस्थितिप्रथमनिषेकस्योपरि तु 'विशेपोनं' विशेषहीनं दलं यथोत्तरं दृश्यते । इदमुक्त भवति-द्वितीयस्थितिप्रथमनिषेके दृश्यमानदलतो द्वितीयस्थितिद्वितीयनिषेके दलं विशेषहीनं दृश्यते, ततोऽपि तृतीयनिषेके विशेषहीनम् । एवं विशेषहीनक्रमेण तावद् दृश्यते, यावद् द्वितीयस्थितिचरमनिषेकः । अनेन क्रमेण दृश्यमानं दलं तावद्वक्तव्यम् , यावत्सूक्ष्मसम्परायाद्धायां प्रथमस्थितिखण्डं निःशेषतो नोत्कीयते, प्रथमस्थितिखण्डे तूत्कीर्ण उत्तरगाथया द्वितीयादिस्थितिघातेषु दृश्यमानदलस्य भिन्नक्रमेण प्रतिपादनात् । उक्तं च कषायप्राभूतचूर्णी-"पढमसमयसुहुमसांपराइयस्स उदये दिस्सदि पदेसग्गं थोवं । विदियाए हिदीए असंखेजगुणं दीसदि। (एवं) ताव जाव (गुणसेढिसोसयं ति) गुणसेडिसीसयादो अण्णा च एक्का ठिदि त्ति । तत्तो विसेसहोणं ताव, जाव चरिमअंतरहिदि त्ति। तत्तो असंखेजगुणं। तत्तो विसेसहोणं। एस कमो ताव, जाव सुहुमसांपराइयस्स पढमढिदिखंडयंचरिमसमयअणिल्लेविदं ति।” ॥२०८॥
प्रथमस्थितिघाते पूर्णे द्वितीयादिस्थितिघातकाले दीयमानं दृश्यमानं च दलं विभणिपुराह--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org